SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ६ प्रकरणं शास्त्रैकदेशं प्रतिपादयति, शास्त्रानुक्तं युक्तियुक्तं कमपि विशेषं च वक्ति । प्रकरणमभावं सप्तमं पदार्थं प्रतिपादयन्न विरुध्यते इति । "शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम शास्त्रभेदं विपश्चितः ।।२।।” तत्र सर्वेषामाधारत्वेनोपजीव्यत्वात् पूर्वं द्रव्योपन्यासः । तदनन्तरं मूर्त्तामूर्त्तद्रव्यवृत्तित्वाद् गुणस्य । ततश्च मूर्त्तद्रव्यमात्रवृत्तित्वात् कर्मणः । त्रयाधेयत्वात्तदनु सामान्यस्य । समवायवतां सर्वेषां सङ्कलनार्थं विशेषाणाम् । तदनन्तरं पूर्वोक्तेषु पञ्चसु समवायो वर्त्तत इति सूचनाय समवायस्य । तथा चोक्तम् — “अवयवावयविनोर्गुणगुणिनोः क्रियातद्वतोर्जातिव्यक्त्योर्विशेषविशेषिणोः समवायः सम्बन्धः” इति । तदनु अवशिष्टस्याभावस्येति ।।२।। अथ मूलभेदानां प्रभेदानां च सर्वेषां लक्षणानि सङ्कलितान्यवविभणिषुः समस्ताँस्तानभिदधानः पूर्वमुपन्यस्तं द्रव्यपदार्थं भिनत्ति - सप्तपदार्थी तत्र द्रव्याणि पृथिव्यप्तेजो- वाय्वा ऽऽकाशकाल - दिगात्म-मनांसि नवैव ।।३।। 'तत्र' तेषु सप्तसु पदार्थेषु अग्रे प्रतिपाद्यलक्षणानि 'नवैव' नवसङ्ख्याकानि भवन्ति । एवकारः पूर्ववत् । नाधिकानि न न्यूनानीत्यर्थः । भिनत्ति— तत्र सर्वप्रमाणज्येष्ठप्रत्यक्षग्रहणयोग्यानां पूर्वं पृथिव्यप्तेजसामुपन्यासः । तत्राप्येकादशगुणात्तेजसः, चतुर्दशगुणानां पृथिव्यपाम् । तत्रापि सर्वाधारभूतत्वात् पृथिव्याः । तदनु बाह्येन्द्रियग्राह्यगुणाधारत्वात् पृथिव्यप्तेजोऽभितुल्यत्वख्यापनार्थं वायोः । तदनु पञ्चानामपि महाभूतानां सङ्कलनार्थमाकाशस्य । ततश्च मूर्त्तमात्रवृत्त्योः परत्वापरत्वयोरुत्पादकत्वात् कालदिशोः । अथवा, शीतातपमेघवृष्टि - वनस्पतिपुष्पफलादीनां नानाविधमूर्त्तवस्तूनां कारणत्वात् कालदिशोः । विभूनां सर्वेषामेकत्रकरणार्थमात्मनः । तदन्ववशिष्टस्य मनस इति || ३ || यथोद्देशस्तथानिर्देश इति न्यायात् पूर्वोपन्यस्तभेदानभिधाय सम्प्रति द्वितीयं गुणपदार्थं गुणास्तु रूप-रस- गन्ध-स्पर्श-सङ्ख्या-परिमाण - पृथक्त्व-संयोग-विभाग- परत्वाSपरत्व - बुद्धि- सुख - दुःखेच्छा-द्वेष प्रयत्न- गुरुत्व द्रवत्व-स्नेह-धर्माऽधर्म-शब्दाश्वतुर्विंशतिरेव । । ४ । । Jain Education International 'गुणा' वक्ष्यमाणलक्षणाः । तुशब्दो द्रव्यपदार्थाद्विशेषख्यापनार्थः । रूपं च रसश्चेति द्वन्द्रः कार्यः । एवकारः पूर्ववत् । तत्र पूर्वं रूपस्य तदनु रसस्य ततश्च गन्धस्येत्यादिक्रमेण य उपन्यासः तत्कारणानि गुणभेदानां रूपरसादीनां प्रभेदावसरे वक्ष्यामः । For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy