________________
सप्तपदार्थी
च विशेषाश्च समवायश्चाभावाश्च 'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाऽभावाः' एता आख्या येषां ते तथा। 'आख्या' शब्द: प्रत्येकमभिसम्बध्यते ।
नन्यभावस्तुच्छत्वान्न पदार्थ इति चेत; तदसत् । किमिदं तुच्छत्वं नाम ? किं प्रमाणाविषयत्वम्, अनुपयोगित्वम्, असमवेतत्वम्, अनाधारत्वं वा, अभोगकारणत्वं वा नियतमन्यज्ञानाधीनज्ञानत्वं वा ? नाद्यः पक्षः, इह भूतले घटाभाव इत्यादिप्रकारेण तस्य प्रत्यक्षेणैव प्रमीयमानत्वात् । न द्वितीयः, अनुपयोगित्वमकिञ्चित्करत्वं, तच्च कार्याकर्तृकत्वं, तस्यात्रावर्त्तमानत्वात्, चक्षुरादिकाचकामलादिदोषाभावादीनां यथार्थप्रतीत्यादिकार्येषु कारणमात्रत्वदर्शनात् । असाधारणकारणत्वं न भवतीति चेत् ? न, स्वविषयिण्याः प्रतीतेरसाधारणत्वेनोत्पादकत्वात् । नापि तृतीयः, समवाये नित्यद्रव्येषु च व्यभिचारात् । नापि तुर्यः, स्वलक्षणस्य धारकत्वात् । न पदार्थान्तरस्येति चेत्; तर्हि समवाये व्यभिचारः, तस्यापि स्वलक्षणादतिरिक्तस्यानाधारत्वात् । नापि पञ्चमः; अनिष्टाभावादीनां सुखादिसाधनत्वात् । षष्ठोऽपि दुष्टः, सर्वथाऽनुमेयवस्तुषु नियतं हेतुज्ञानाधीनज्ञानत्वेन व्यभिचारात् । अथ भावस्वरूपरहितत्वमिति चेत; तद्भावस्वरूपं पदार्थो वा न वा ? न वेति वक्तुं न युक्तं प्रतीतिविषयाभावप्रसङ्गात् । पदार्थश्चेत्; तर्हि भावस्वरूपं भावस्वरूपे वर्तते न वेति ? न चेत्; तत्र व्यभिचारः, पदार्थत्वेऽपि भावस्वरूपरहितत्वात्। वर्तते इति चेदात्माश्रयः। अन्येवर्त्तने वा तत्रापि पूर्वोक्तविकल्पनाऽनिवृत्तेरनवस्थावल्लेरुलासः स्यात् । भावलक्षणरहितत्वेऽप्येवमेव वाच्यम् । विधिमुखेन प्रतीयमानत्वं तुच्छत्वमिति चेद्र; तन्न, विधिः स्वरूपसत्त्वं सत्ता वा ? आद्यश्चेन्नाभावस्य तुच्छत्वम्; इह भूतले घटाभावोऽस्तीत्यस्तिप्रतीतिविषयत्वेन स्वरूपसत्त्वाधिकरणत्वात्। द्वितीयपक्षे तु सामान्यादिषु व्यभिचारः । निषेधरूपेण प्रतीतत्वमित्यपि न किञ्चित् । किं निषेधः प्रतियोगिनो वाऽभावस्य वा ? न तावदभावस्य, तस्य प्रतिषेधे भावोपलम्भप्रसङ्गात् । प्रतियोगिनश्चेत्, अभावे किमागतम् ? ततोऽन्यत्वात् ।
__ अथाभावः पदार्थो भवति परं न पदार्थान्तरमिति चेत्; न कस्मिंश्चिदन्तर्भावाभावात् । तथाहि अभावो द्रव्ये नान्तर्भवति, निर्गुणत्वात् । नापि गुणे, द्रव्यमात्रवृत्तिनियमात् । नापि कर्मणि अचलनात्मकत्वात् । नापि सामान्ये, सामान्येऽपि वर्तमानत्वात् । नापि विशेषेषु, कार्येष्वपि वर्तमानत्वात् । नाऽपि समवायेऽनेकत्वात् । प्रमाणं च—'अभावः पदार्थान्तरं भवितुमर्हति, पदार्थत्वे सति अन्यस्मिन्ननन्तर्भूतत्वाद् गुणादिवद्' इति प्रमाणेन तत्सिद्धिरिति ।।
ननु मूलशास्त्रे षट्पदार्थप्रतिपादनाद् विरोध इति चेत; न, काणादैः सप्तत्वनिषेधाऽकरणात, भाष्यकारादीनां त्वस्माभिराप्तत्वेनाङ्गीकारात्, प्रकरणस्य चैवंविधलक्षणस्य प्रतिपादनात् । तथा चोक्तम्
१. 'न वा' इति अ. २. प्रतौ नास्ति. २. 'अन्य' इति अ. २. प्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org