________________
सप्तपदार्थी
यद्येवं तर्हि मानसिक एव नमस्कारः क्रियता, किमस्य वाचिकस्यात्र करणेनेति चेत; सत्यम्, तथापि मानसिकस्य करणे वाचिकः श्रोतारं शास्त्रादौ प्रेरयति । तदर्थमस्योपन्यासः । किञ्च, शिष्टाचारोऽयं यद्विशेषकार्यादाविष्टदेवतां नमस्कृत्यैव प्रवर्त्तन्त इति तदाचारपालनाय चायमिति ।।१।।
शास्त्रादावभिधेयप्रयोजनसम्बन्धाधिकारिणश्चेति चत्वारः प्रतिपादनीया भवन्ति । अतोऽत्रअभिधेयाः पदार्थाः । कर्तुरानन्तर्येण प्रयोजनं वैशेषिकशास्त्रानभिज्ञविनेयावबोधः, श्रोतुश्च पदार्थतत्त्वज्ञानम; एतच्च स्वयमभ्यूह्यम्; पारम्पर्येण तु द्वयोरपि निःश्रेयसावाप्तिः, तच्चाग्रे ‘एतेषां तत्त्वज्ञानं निःश्रेयसहेतुः' इत्यनेन प्रतिपादयिष्यति । सम्बन्धो वाच्यवाचकलक्षणः । वाच्यं पदार्थः, वाचकं शास्त्रम् । अधिकारिणो वैशेषिकशास्त्राप्रवीणाः प्राथमकल्पिका इति । तत्र पूर्वमभिधेयं वाच्यं ततः पदार्था इत्यभिधेयमभिदधानः पदार्थानां लक्षणमाह
प्रमितिविषयाः पदार्थाः ।।१।। अत्र ‘पदार्था' इति लक्ष्यनिर्देशः । 'प्रमितिविषया' इति लक्षणनिर्देशः । प्रमितिः प्रमा, तस्या विषया ग्राह्या ग्रहणयोग्या ये ते पदार्था इति । विषयाः पदार्था इत्युक्ते विपर्ययादिविषयेषु शुक्तिशकले कलधौताद्यारोपितेषु व्यभिचारः। तन्निवृत्त्यर्थं प्रमितिग्रहणम् । प्रमितिः पदार्था इत्युक्ते प्रमितिव्यतिरिक्तेषु पदार्थेष्वव्याप्तिः, तन्निवृत्त्यर्थं विषया इति ।
ननु प्रमितिः प्रमितिविषया भवति न वा ? न चेत; तत्राऽव्याप्तिः, लक्ष्यैकदेशे लक्षणागमनमव्याप्तिरिति तल्लक्षणम् । ततश्च पदार्थरूपायामपि तस्यां प्रमितिविषयत्वावर्त्तनात् । भवतीति चेत; तागमविरोधः स्वप्रकाशायाः प्रमितेरीश्वरातिरिक्तायाः काणादैरनङ्गीकारादिति चेत् ।
अत्रोच्यते-प्रमितेरनेकत्वेन प्रमित्यन्तरस्याः प्रमितेविषयत्वं न विरुध्यते । तथाहि प्रत्यक्षप्रमाणमनुमानस्य विषयः; यथा ‘प्रत्यक्षप्रतीतिः करणसाध्या, क्रियात्वात्, छिदिक्रियावद्' इत्यनेन यत् तत्र करणमनुमीयते तत् प्रत्यक्षप्रमाणम् । अनुमानं च प्रत्यक्षस्य विषयं(यः) यथा धूमानुमाने धूमज्ञानं मानसप्रत्यक्षम् । क्वचिदनुमानस्यानुमानं विषयो भवतीति । ईश्वरप्रत्यक्षाः पदार्था इत्यपि लक्षणान्तरम् ।।१।।
अथवा शास्त्रेषु चतुर्धा प्रवृत्तिः--उद्देशो १, लक्षणम् २, परीक्षा ३, विभागश्चेति ४ । तत्र पदार्था इत्युद्देशः, संज्ञामात्रेण पदार्थप्रतिपादनमुद्देश इति तल्लक्षणात् । प्रमितिविषया इति लक्षणम्, 'असाधारणधर्मो लक्षणम्' इति तत्स्वरूपात् । पदव्यवच्छेद: परीक्षा । सा च पूर्वोक्तप्रकारेण करणीया। उद्दिष्टवस्तुनो भेदकथनं विभागोऽतः क्रमप्राप्तमुद्देशलक्षणमभिधाय परीक्षां च संसूच्य विभागमाह
ते च द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया-ऽभावाख्याः सप्तैव ।।२।। ततस्ते पदार्थाः 'सप्तैव', नाष्टौ, न षडिति । द्रव्याणि च गुणाश्च कर्माणि च सामान्यानि
१. कणादैः अ. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org