________________
सप्तपदार्थी
भवत्येवेति न व्यभिचारः । नन्वत्र केवलान्वयत्वेन साध्योपाधेः कुतश्चिद् विपक्षाद् व्यावृत्तेर-भावतः उच्यमानोपाधेः पक्षेतरत्वदोषस्यावश्यंभाव इति चेत; न, अरण्याङ्कुरादिषु व्यतिरेकसिद्धेः। 'अङ्कुरादिकं सकर्तृकं कार्यत्वाद् घटवद्' इत्यनेन तत्र कर्ताऽवश्यंभावी, स च न नागरादिः, तस्य तत्राप्रवृत्तत्वात् । अतो यः कोऽपि अतीन्द्रियः कर्ता स ईश्वरः, इतीश्वरजन्येष्वङ्कुरादिषु नित्यत्वोपाधिव्यावृत्तेः सिद्धत्वात् । अङ्कुरादीनामतीन्द्रियः कोऽपि कर्ता वर्तते परं न स ईश्वर इत्यपि सज्ञामात्रे विवादान्न किञ्चित् । किञ्चाङ्कुरादिष्वनैकान्तिकत्वं, तत्रापि प्रमेयत्वस्य वर्तमानत्वादिति ।
हेतवे जगतामेव इत्युक्ते द्रव्ये व्यभिचारः । द्रव्यमपि भावरूपाणां सर्वेषां कार्याणां समवायिकारणत्वेन हेतुर्भवति । तन्निवृत्त्यर्थं 'संसारार्णवसेतवे' इति । अथवा नमस्करणीयसत्त्चे प्रमाणं संसूच्य तन्नमस्करणेऽनुत्तरफलं सूचयति । संसारो भवः, स एव महार्णवः महासमुद्रः। यत उक्तम्
"भीष्मो भूरिशरीरमत्स्यमकरैरन्योऽन्यमाहारिभिः ।
सम्पूर्णः कलिलोत्थदुःखसलिलैः सूक्षारताधारिभिः । द्वेषोद्यद्वडवानलप्रविलसज्ज्वालावलिव्याकुलः
कस्य स्यान्न भिये महाभयकरः संसारनीराकरः ।।१।।" तत्र सेतुरिव सेतुबन्धसदृशस्तस्मै । असारदुःखभाण्डागारसंसारपारावारप्रापणं फलमिति श्लोकार्थः ।
ननु नमस्कारः सप्रयोजनो निष्प्रयोजनो वा शास्त्रादावुपन्यस्तः ? न तावदन्त्यः, 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात् प्रेक्षावत्ताहानिप्रसङ्गः । आद्यश्चेत्-तत्प्रयोजनं पुण्यफलमात्रं, विघ्नोपशान्तिर्वा ? आद्य इति चेत् तर्हि असाक्षात्प्रयोजनस्य तस्य करणमभिधेयादिप्रकाशनप्रस्तावे शास्त्रादावप्रस्तुतं स्यात् । अथ द्वितीयश्चेत्—सा सर्वकालं, शास्त्रपरिसमाप्तिं यावद् वा ? नाद्यः सनमस्कार शास्त्रकर्तुरप्यनिधनत्वायोगात् । शास्त्रपरिसमाप्तिं यावदित्यपि वक्तुं न युक्तं, नमस्कारे सत्यपि चम्पूकथादौ शास्त्रे परिसमाप्तेरदर्शनात् । न च तमन्तरेण शास्त्रे परिसमाप्तिरवश्यं न भवतीति वाच्यम्, मीमांसाभाष्यादौ नमस्कारमन्तरेणापि तस्या दर्शनाद् इति चेत् ।
अत्रोच्यते—नमस्कारो हि त्रिविधो मानसिको वाचिकः कायिकश्च । तत्र मानसिकः शास्त्रपरिसमाप्त्यादिना भावी । चम्पूकथादिषु च वाचिके नमस्कारे सत्यपि मानसिको नास्तीति प्रमीयते । तथाहि—'चम्पूकथादि मानसिकनमस्कारपूर्वं न भवति, अपरिसमाप्तशास्त्रत्वाद्, न यदेवं न तदेवं यथा रत्नाकरावतारिकादि ।' मीमांसाभाष्यादि मानसिकनमस्कारपूर्वकं, परिसमाप्तशास्त्रत्वात् तद्वदेवेति । तत्र वाचिकाभावेऽपि सोऽनुमीयते । शेषं तु विकल्पजालमनङ्गीकारपरिहारपराहतम् ।
१. →-एतच्चिह्नान्तर्गतः पाठः अ. २. पुस्तके भ्रष्टः । २. निकरै अ. १ । ३. 'न्यमोहोर्मिभिः अ. १ । ४. सक्षारता
अ. २ । ५. नमस्कारः अ. २ । ६. रपि निधनत्यायोगात् अ.२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org