________________
सप्तपदार्थी
तस्याशरीरत्वेन वक्तृत्वायोगाद् इति चेत्; न, शब्दा हि यथाप्रस्तावं प्रवृत्तिमनुवर्तन्ते न पुनर्व्युत्पत्तिमात्रम् । व्युत्पत्तिमात्रानुगमनाङ्गीकारे गच्छतीति गौरिति व्युत्पत्त्या तिष्ठन् गौर्न स्यात् । ततोऽत्र प्रस्तावाद् गुरवे पूज्याय तथा च न कोऽपि दोषः ।
२
I
शम्भवे गुरवे नमः - इत्युक्ते मातृपित्रादिषु व्यभिचारः स्यात् । तन्निवृत्त्यर्थं ' प्रभवे' । तथ शोभननृपादावतिव्याप्तिः स्यात् । तन्निरासार्थं 'विद्यानाम्' इति । तथोक्ते गुरुभ्यो नमस्या स्यात् । तन्निरासार्थं ‘सर्वविद्यानाम्' इति । विद्या: शास्त्राणि सम्यग्ज्ञानं वा, सर्वाश्व ता विद्याश्च सर्वविद्याः, तासां 'प्रभवे' नायकाय । आदिकर्तृत्वेन नमस्कारादिषु शास्त्रादावधिष्ठायित्वेन वा शास्त्रपरिसमाप्तेस्तत्प्रसादाविनाभावाद्वा स्वामिने । अथवा प्रभवे उत्पत्तिस्थानाय वेदादिशास्त्राणामीश्वरोत्पाद्यत्वात् । अथवा सर्वविद्या सम्यग्ज्ञानं येषां ते सर्वविद्यायोगिनस्तेषां प्रभवे नायकाय, योगिभिस्तस्य ध्यायमानत्वात् । तथोक्ते ईश्वरसत्त्वे प्रमाणं नास्तीति नमस्या निराश्रया स्याद् इत्याशङ्कय प्रमाणगर्भितविशेषणमुपन्यस्यति 'हेतवे जगतामेव' इति । जगन्ति गच्छन्ति अनित्याः पदार्था इत्यर्थः । तेषां हेतवे निमित्तकारणाय । एवकारोऽवधारणार्थस्ततो जगतामनित्यानामेव न नित्यानां
।
अथवा ब्रह्मवादिवन्नोपादानकारणाय किन्तु जगतां हेतवे एव निमित्तकारणायैव । प्रमाणं चादः - भूभूधरादिकं बुद्धिमत्कर्तृपूर्वकम् कार्यत्वाद, घटवदिति । तत्र बुद्धिमान् यः कर्त्ता स ईश्वर इति पारिशेष्यानुमानेन तत्प्रतीतिः । न च कार्यत्वं भूभूधरादीनामसिद्धम् सावयवत्वेन तत्सिद्धेः । न चास्य' विद्युदङ्कुरादिषु कार्येषु अनैकान्तिकत्वैमाशङ्कनीयम्; एतेषामप्यादिशब्देन पक्षे एव प्रतिपादितत्वात् । नन्वेवं सम्प्रति उत्पद्यमानानां तेषां बुद्धिमत्कर्तुरनवलोकनात् पक्षैकदेशे प्रत्यक्षबाध इति चेत्; तदसत्, दृश्यमानोत्पत्तिकार्याणां कारणविलोकनाविनाभावाभावात्, अदृष्टव्यन्तरादिजन्यमानकार्यस्य प्रत्यक्षेणापि दृश्यमानत्वाद् । अतिशयेन तदपि दृश्यते इति चेत्; तदत्रापि समानम् । न च - मूर्त्तत्वेनास्मदादिग्रहणयोग्यात् तस्माद्° उत्पद्यमानस्य कार्यस्य दृश्यत्वमुपपद्यते, न पुनः सर्वथा ग्रहणायोग्यादितिवाच्यम्, सर्वथाऽस्मदादिभिर्द्रष्टुमयोग्यस्यापि धर्माधर्म्मलक्षणादृष्टस्येष्टसंयोगानिष्टवियोग-रोगादिकार्यस्य दृश्यमानत्वादिति ।
'जगद् ईश्वरजन्यं न भवति, प्रमेयत्वाद, गगनवत्' इति सत्प्रतिपक्षत्वमिति चेत्; न नित्यत्वोपाधिना तस्य प्रतिपक्षस्य बाधितत्वात् । न चात्र शङ्कितत्वमाशङ्कनीयम्; साधनाव्यापकत्वे सति साध्यसमव्यापक उपाधिरिति निश्चितोपाधिलक्षणस्यात्र विद्यमानत्वात् । तथाहि यत्र यत्र प्रमेयत्वं तत्र तत्र नित्यत्वमिति व्याप्तिर्नास्ति, पक्षे व्यभिचारात् यच्चेश्वरजन्यं न भवति तन्नित्यं
१. नियमार्थः ४ अ. पा. टि. । २. समवायिकारणाय अ. १ पा. टि. । ३. एव-कारस्य भिन्नक्रमत्वात् अ. १ पा. टि. । ४. प्रसक्तप्रतिषेधेऽन्यत्राऽप्रसङ्गात् शिष्यमाणे संप्रत्ययः परिशेषः, तस्य भावः पारिशेष्यं, तस्यानुमानेन अ. १ पा. टि. । ५. कार्यत्वस्य हेतो: अ. १ पा. टि. । ६. साध्यात्यन्ताभाववति हेतोर्गामित्वमनैकान्तिकत्वम् अ. १ पा. टि. । ७. व्यन्तरादेः कारणात् अ. १ पा. टि. । ८. उत्पद्यते अ. १ । ९. नित्यत्वोपाधौ अ. १ पा. टि. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org