SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ।। सर्वज्ञाय नमः ।। ।। श्रीजयप्रभसूरिगुरुभ्यो नमः ।। शिवादित्याचार्यसूत्रिता सप्त पदार्थी जिनवर्धनसूरिकृतव्याख्यया सहिता । श्रीवर्धमानजिनपोऽस्तु स विघ्नहन्ता सिंह: स्वतः प्रबलवीर्ययुताय यस्मै । दत्त्वा निजासनमसौ कुरुतेऽङ्घ्रिसेवां सिंहासनोपरि यतो भगवान् रराज ।।१।। प्रभावविभवावासं प्रतिभादानदक्षिणम् । स्पृशामि शिरसा सौध' गुरुपादरजःकणम् ।।२।। पूर्वशास्त्रानुसारेण बालानां मन्दमेधसाम् । शेमुषीसिद्धये' रम्या जिनवर्द्धनसूरिणा ।।३।। अज्ञानतिमिरध्वंससप्तसप्तिप्रभानिभा । किञ्चित् सप्तपदा या व्याख्या प्रस्तूयते मया ।। युग्मम् ।।४।। अतिगहनगम्भीरकणादसूत्र-"प्रशस्तकरभाष्यादिमहाशास्त्रेभ्योऽल्पमेधसां शिष्याणां पदार्थबोधाऽसम्भवात् श्रीशिवादित्याचार्यः तत्प्रतिबोधायाऽल्पतरं सुबोधं सप्तपदा प्रकरणं चिकीर्षुरादौ सर्वविघ्नोपशान्तये शिष्टाचारप्रतिपालनाय चेष्टदेवतानमस्कारमाह हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ।।१।। नमः-भक्तिभरनि तो मनोवाकायैः प्रह्वीभवामि । 'नम' इत्युक्ते कस्मै नम इत्याकाङ्क्षा । तन्निरासार्थं 'शम्भव' इति । शं सुखं भवत्यस्मादिति शम्भुः-इतिकृत्वा स्रक्चन्दनवनितादेरपि नमस्या स्यात् । तन्निरासार्थं 'गुरव' इति । ननु गृणाति वदति तत्त्वमिति गुरु:-इतीश्वरे गुरुत्वं न सम्भवति, १. दक्षणम् अ. २ । २. सौव अ. ५। ३. श्लोकोऽयं अ. २ प्रतौ नास्ति । १. शेमुषी = बुद्धिः । ५. प्रशस्तपदभा' अ.१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002654
Book TitleSaptapadarthi
Original Sutra AuthorShivadityacharya, Jinvardhansuri
AuthorJ S Jetly
PublisherL D Indology Ahmedabad
Publication Year2003
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy