________________
१०६
मण्डलीः प्रथमान्तम् । ७ प्रति + ऊ + ऊह-प्रत्यूह-शर+भा प्रत्यूहशरभ-प्रत्यूहशलभ ! संबोधनम् । ८ प्र + उषा + इन्धू + क्विम् = प्रोषेत् + ई + प्रदीप + अङ्कुर + अस् प्रोषेदीप्रदीपाकुराः - प्लोषेदीप्रदीपाकुराः प्रथमान्तम् । ९ अ + ति = अति = अतेः षष्ठयन्तम् । • पाङ्कुराः अतेः = • पाङ्कुरायतेः = • पाङ्कुरायते ।]
___व्याख्या-हे प्रत्यूहशलभ ! प्रतिकूलः ऊः ईश्वरे ऊहो वितर्को यस्य स प्रत्यूहः, ईदृशो यः शरैः पुष्पमयैर्बाणैर्भातीति "क्वचित्" [५ । १ । १७१ ] डे प्रत्यूहशरभः कामस्तस्य सं० । हे ताम्र ! गौरवर्णत्वाद् रक्तस्तस्य सं० । त्वम् न विद्यते तिर्ज्ञानं यस्य स तस्य अतेः अज्ञानस्य विषयविषपानेच्छाच्छादितहार्दज्ञानस्य कस्यचित् पुंसः सिद्धये विषयसुखाभिलाषपूर्तये स्तादिति संबन्धः । त्वं किं० वो महेश्वरः तस्मिन् निजवैरिस्वाद् ऋद्धो मानोऽहङ्कारो यस्य स वर्धमानः । त्वं किं० अयं प्रत्यक्षः । पुनः किं० नखा मखक्षतानि तेषां मण्डलं समूहः नखमण्डलं तत् स्त्रीणां वक्षःस्थलादौ करोतीति णिजि अचि नखमण्डलः कामिजनः । तमिच्छसीति 'क्यङि क्विपि अल्लोपे यलोपे नखमण्डलीः । पुनः किं० प्रकर्षणोषायां रात्रौ इन्धे दीप्यते क्विपि प्रोषेत् । पुनः किं० ई लक्ष्मीः, प्रदीपो दीपः, अङ्करा नवोद्गतसहकारादितरुप्ररोहास्तेषां द्वन्द्वे ईप्रदीपाकुरास्तैः अससि दीप्यसे क्विपि ईप्रदीपाकुराः । लक्ष्म्याः , प्रदीपेन, अङ्कुरैश्च कामः प्रदीप्यते इत्येवमुक्तिः ॥१०२॥
इति कामं वर्णयित्वा तद्दीपनहेतुं पिकं वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१०३॥ ['सिद्धये वैधमा नस्ताऽऽत्ताऽऽम्रायन्नखमण्डलीः।
प्रत्यू-हशलभप्लोषेद् 'ईप्रदीपाङ्कुरा यते ॥ १०३ ॥] [ १ सित् + हय - सप्तम्या एकवचने - सिद्धये । २ ऊ + अर्द + णिच् + अच् वर्ध + मायु = णिच् + क्विपू = वर्धमाय् । अत्र 'वर्धमाय् इति प्रथमान्तम् । वर्धमाय् + नस्ता० = वर्धमानस्ता० । ३ नस् + ता = नस्ता + आत्त + आम्र + अस् = नस्ताऽऽत्ताss म्राः + अन्नः -- ताम्रायन्न । ४ अन्न + खाद् + ड = अन्नख + मण्ड + ली = अन्नखमण्डलीः प्रथमान्तम् । ५ प्रति = अव् + क्विपू = प्रत्यू- ह = प्रत्यूह+ शर + भा = शरभः । प्लोष + इन्ध = प्लोषेत् । प्रत्यूह + शरभ + प्लोषेत् = प्रत्यूहशरभप्लोषेत् । अत्र 'प्लोष'शब्दः स्नेहवाची । ६ प्र + दा = प्रदा। ई + प्रदा = ईप्रदा सप्तम्येकवचने ईप्रदि। ईप्रदि+इपाकुराः ईप्रदीपाकुराः । • प्लोषेत्+ईप्रदी० प्लोषेदीप्रदी० । ७ यते सप्तम्या एकवचने ।]
१ अत्र 'क्यनि' इति उचितम् अन्यथा 'मण्डली' इति न स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org