________________
१०५
[१ चतुर्थ्यन्तम् । २ वर्धमान + णिच्+क्विप्= वर्धमान् षष्टया एकवचने वर्धमानः । ३ स्तात् क्रियापदम् । ४ ताम्र + अस् = ताम्रास् = ताम्राः । ५ अन्न + खव् + विचू = अन्नखव् + मण्डली = अन्नखमण्डली । ताम्राः + अन्नख० = ताम्रायन्नख० । ६ मण्डली + क्यङ् + क्विप् = मण्डलीः प्रथमान्तम् । ७ प्र+ ती = प्रत्यू+ ह + शलभ = प्रत्यूह. शलभ + प्लोषे = प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । ८ दीप्र ! संबोधनम् ।९ दीपाम् षष्ठीबहुवचनम् । १० कुः प्रथमैकवचनम् । दीपाम् + कुः - दीपाकुः । ११ आयतेः षष्ठया एकवचनम् । ]
व्याख्या-''अग्नौ वमिदीप्रः" [१६६' अथवा १७११' ] इति शेषवचनात् हे आने ! त्वं वर्धमानः वर्धमानं शरावम् उपलक्षणत्वाद् घटादि करोतीति णिजि क्विपि तल्लोपे वर्धमानिति नन्तप्रकृतेः षष्ठयां वर्धमानः कुम्भकारस्य सिद्धये घटादिनिष्पत्तये स्तात्-भव-इति क्रियासंबन्धः । त्वं किं० तानं कान्त्या अस्यति क्षिपति क्विपि ताम्राः। पुनः किं ० अन्नेन वायुना 'व(ख)वशू हेठ भूतप्रादुर्भावे' [ १५४४, १५५६ ] इति खौनाति प्रादुर्भवतीति विचि व्यञ्जनकार्यस्यानित्यत्वात् “य्वोः प्वयू." [४ । ४ १२१] इति वलोपाभावे, “व्योः" [१ । ३ । २३ ] इति लोपे अन्नखम् । तथा पुनः किं० मण्डलं बिम्ब विद्यते यस्य स “अतोऽनेकस्वरात्” [ ७ । २। ६ ] इति इनि मण्डली सूर्यः तद्वदाचरति "क्य" [३ । ४ । २६ ] इति क्यङि क्विपि तल्लोपे मण्डलीः देदीप्यमानत्वात्। पुनः किं० कुः स्थानं दीपां कान्तीनाम् । पुनः किं० प्रकर्षेण तीवैन्तीति पुष्टीभवन्तीति क्विपि वस्योटि प्रत्यूनि पुष्टानि हानि दारूणि तथा शलभाः पतङ्गाः तेषां प्लोषे विनाशे कर्तव्ये आयता विस्तृता ईर्लक्ष्मीः कान्तिर्यस्य स आयतेः, अनित्यत्वात् कजभावः ।। १०१ ॥
इति अग्निं वर्णयित्वा कामं वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥ १०२॥ ['सिद्धये वैधमानः स्तात् ताम्राज्य नखमण्डलीः।
प्रत्यूहशलभ ! प्रोपे दीपदीपाङ्करायते॥१०२ ॥] [१ चतुर्थ्यन्तम् । २ व + ऋद्ध + मान = वर्धमानः प्रथमान्तम् । ३ स्तात् क्रियापदम् । ४ ताम्र ! संबोधनम् । ५ अयम् प्रथमान्तम् । ६ नखमण्डल + क्यन् + क्विप्-नख
१ निर्णयसागरमुद्रितायाम् 'अभिधानचिन्तामणिपरिशिष्ट' अपरनामधेयायां शेषनाममालायां १६६ श्लोके अयं शब्दः "अग्नौ वमिर्दीप्रः" इत्यस्मिन् पद्ये दर्शितः । पुनश्च अयमेव शब्दः देवचन्दलालभाईग्रन्थसंग्रहे प्रकाशितस्य अभिधानचिन्तामणिकोशस्य प्रथमतः अनवच्छिन्नतया अङ्कगणने १७११ संख्यके पद्ये । २ 'तोव स्थौल्ये' धातुः भ्वादिगणे ४६९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org