________________
१०७
व्याख्या-इकारेण युक्तः प् पकारो यस्य स इप् । तथा अकारम् अञ्चतीति श्रयतीति क्विपि आङ् ईदृशः क् ककारः उरः अग्रे यस्य स आङ्कुराः इप् चासौ आङ्कुराश्च इपाङ्कुराः अस्ति । अत्र "घुटस्तृतीयः" [२।१ । ७६ ] इति प-कोबैत्व-गत्वे न भवतः, संज्ञाशब्दत्वेन- यथा 'अज्भ्याम्' कृते तु सन्देहः स्यात् न ज्ञायते पकारो बकारो वेति-एतावता कोऽस्तीत्यर्थः । पिकः कीदृग् ? नस्तात्ताम्रा यन्नखमण्डली नस्ता कौटिल्यं तया आत्तो गृहीतो य आम्रः सहकारः तस्मिन् असति शोभते क्विपि नस्तात्ताम्राः । यन् अन्नं भोजनं आम्रफललक्षणं तत् खादतीति “क्वचित्" [५। १ । १७१ ] डे नस्तात्ताम्रायन्नखः सहकारफलास्वादक इत्यर्थः । तथा "मण्डो मस्तुनि भूषायामेरण्डे सार-पिच्छयोः” [ हम० अने० सं० द्विस्वरकां० श्लो० १४०] इत्यनेकार्थवचनात् मण्डः पिच्छम् लीयते श्लिष्यतीति क्विपि मण्डलीः, तयोर्विशेषणसमासे नस्तात्ताम्रायन्नखमण्डलीः । पुनः किं० प्रतिपूदि अवतेर्दहनार्थात् क्विपि प्रत्यूर्दाहको हः शिवो यस्य स प्रत्यूहः कामः स एवं शरैर्बाणैर्भातीति "क्वचित्" [५।१ । १७१ ] डे शरभः सुभटस्तस्मिन् प्लोषः स्नेहस्तेन इन्धे दीप्यते विपि प्रत्यूहशलभप्लोषेत् पिकोल्लापेनापि कामोद्दीपनं भवति । पुनः किं० ऊर्ज्ञानं तत्त्वातत्वविषयं ताम् अर्दयतीति खण्डीकरोतीति णिजि अचि व? यो “मायुः पित्तम् मानम् शब्दश्च" [उणादि० सू० ७२६] इति उणादिवचनात् मायुः शब्दः तं करोत्याख्यातीति वा णिजि क्विपि तल्लोपे वर्धमायू "व्योः" [१ । ३ । २३ ] इति पश्चाद् यलोपः । कोऽर्थः ? तत्त्वातत्त्वज्ञानापहारकपञ्चमोल्लापकारक इति । कस्मिन् ? यते जितेन्द्रियलोके । किम्भूते ? 'षिधूचु संराद्धौ [ ११८५ ] सिध्यतीति क्विपि सित् संपद्यमानः-'हिंट गति-वृद्धयोः' [१२९५] इति “युवर्ण-वृ-६०" [ ५। ३ । २८] इत्यलि-हयो ज्ञानं यस्य स सिद्धयस्तस्मिन् ज्ञानवतीत्यर्थः । पुनः किं० ई शोभां प्रददातीति विपि ईप्रदाः सप्तम्यां "लुगातोऽनापः” [ २ । १ । १०७] इति आलोपः एतावता ज्ञानिन्यपि जितेन्द्रियजनेऽपि, सर्वत्र शोभाकरेऽपि ज्ञानापहारः पञ्चमोल्लापकारक इत्यर्थः । तेषामपि तच्छ्रवणाद् विह्वलीभवनेन तत्त्वातत्त्वविचारलोपात् ॥ १०३ ॥
इति पिकं व्यावर्ण्य मेघ वर्णयति-तथाहि
१ यथा अजूभ्याम् इत्यत्र जस्य गत्वं न भवति तथा अत्रापि पस्य बत्वम् कस्य च गत्वन भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org