________________
लीलावतीसारे तया संवसतस्तस्य निर्भाग्यैकशिरोमणेः । पापद्रुमफलानीव डिम्भरूपाणि जज्ञिरे ॥५४ तैर्भुण्डशुकरैडिम्भैरियेण च शल्यितः । श्रीमतां चाटुकारैश्च कथञ्चित् स्वोदरम्भरिः ॥५५ आत्मकुलप्रहरकं ददत्या सोमया पुनः । पितृप्रदत्तैर्धान्याद्यैः स नित्यं निरवायत ॥५६॥ युग्मम् भषणो भषणवच्च निहेतु प्रातिवेश्मिकैः । क्षुधाकरालित इति सोढदुर्भाषितश्च तैः ॥५७ श्वशुरस्य भोजनाद्या जीवन्नालस लज्जसे । तैरित्युक्तश्च स क्रोधात् श्वशुरं तांश्च निन्दति ॥५८॥ युग्मम् तथा हि - ऋणदासो मम पितुः शिवशर्मेषकः खलु । सर्व पुरुषकारेणोद्धतं युष्माभिरेव च ॥५९ ततः सोमामातुलेन विष्णुमित्रेण सोऽन्यदा । भाषितः शिवशर्माऽसौ सोम्याक्रोष्टुं न युज्यते ॥६० यतस्तवायमाधारः श्वशुरोऽध्यापकस्तथा । निर्वाहकृद्विपत्त्राता तत् पूज्यश्च प्रभुश्च ते ॥६१ यत उक्तम् -- एकाक्षरप्रदातारं गुरुं यस्तु न मन्यते । स करे नरके चैव क्षिप्यते कृमिसञ्चये ॥६२ स्वामिघाती महापापो दक्षिण्येन प्रवेश्यते । नरके पच्यते तीब्रदुःखे चैष सहस्रशः ॥६३ तस्माद्वत्स प्रियं वाच्यं भवता विश्वकार्मणम् । निर्जीवान्यपि वाद्यानि माधुर्यात् प्रीणते जगत् ॥६४ कस्यापि नाप्रियं वाच्यं विशेषाच्छिवशर्मणः । 'वह्निदग्धाः प्ररोहन्ति वाग्दग्धास्तु यतो न हि ॥६५ विष्णुमित्रेणेत्थमुक्तोऽप्यग्निशर्माऽकुपद् भृशम् । सर्पिषा तपितोऽप्यग्निर्दहत्येव न संशयः ॥६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,