________________
द्वितीय उत्साहः तं प्रत्यूचेऽग्निना तेन पाप्मिना सर्वलोपिना । रे जरद्व शासन्मां मकरान्मर्तुमिच्छसि ॥६७ विष्णुनोक्तं मया पुत्र तव पथ्यमुदाहृतम् । मुधा कुप्यसि नेष्टं चेन्न भणिष्यामि ते पुनः ॥६८ तदैव तत्रागतेन मातुलेमाग्निशर्मणः ।। चण्डसोमेनाम्निरूचे वृथा कुप्यसि विष्णवे ॥६९ समातुलं ज्वलन्नाख्यन्मत्तोऽप्यतिसुधीरसि । परं मत्पार्णिप्रहारं त्वद्वक्त्रमभिलष्यति ॥७० तत्र प्राप्तेन मलयानिलवन्मार्दवस्पृशा । । सरव्या गङ्गाधरेणाथ वणिजाऽग्निः स नोदितः ॥७१ किं मित्र पूज्येषु शिवशर्मादिष्वेवमुच्यते । इति तन्नोदनाक्रुद्धः सोऽग्निस्तमदुनोद्राि ॥७२ रे शूद्राधम स्तादेवं मामेवं शिक्षयिष्यसि । क गतः शोत्स्यसीदानीं ममापसर दृष्टितः ॥७३ ततो वणिग् जगौ शूद्राधमस्य कणमुष्टये । भूदेवासि करं धत्से दास्ये नातः परं कणम् ॥७४ वणिग्वाचाऽग्निशर्मा च क्रद्धोऽहंस्तं चपेटया । ततः कलकलो जज्ञे सर्वे जग्मुर्यथागतम् ॥७५ अग्निशर्मा गतो गेहं सा वार्ताऽज्ञायि सोमया । ऊचे प्रियोऽक्षयनिधिस्त्वया गङ्गाधरो हतः ॥७६ तस्मिन् रुष्टे कथं भावी निर्वाहस्तव दुर्मते । ऊचेऽग्निस्त्वं च मां रण्डे शास्सि तद्यामि ते गृहात् ॥७७ स निर्गतस्ततो दध्यावस्यानर्थस्य कारणम् । विष्णुभित्रो येन सुप्ता बोधितैवं हि सर्पिणी ॥७८ ततः श्रीकरणे तेन पूच्चक्रेऽक्षत्रमस्ति भोः ।
विष्णुमित्रो परिस्पष्टं मरिष्यामि हृतस्ववत् ॥७९ ७३.२. सौत्स्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org