________________
૨૨
लीलावतीसारे
[८०-९२
इत्युक्त्वा सद्योऽग्निशर्मा न्यपतत् कण्टिकावृतौ । बलं विषोदराघातायेव यस्माद् द्विजन्मनाम् ॥८० अथाहूतः कारणिकैर्विष्णुमित्रोऽग्निमू चिवान् । मया किमपराद्धं ते येन मूर्ख मुमूर्षसि ॥८१ क्रोधवह्निस्फुलिङ्गाक्षस्तज्ज्वालास्फुरदोष्ठकः । तद्भूमोपमनिश्वासः [सो]ऽग्निशर्मा तमभ्यधात् ॥८२ मूर्खस्तव पिता येन शिक्षा दाताऽसि निर्मितः ।। तदा मत्कीर्तिर्दुःशिक्षाधूल्या मलिनिता त्वया ॥८३ विष्णुरूचे पुनः शिक्षा न ते दास्यामि पुत्रक ।। तज्जीव यावदायुस्ते मैवमेव वृथा मृथाः ॥८४ शिक्षा काऽस्मै त्वयाऽदायीतिऽपृष्टेऽधिकृत गौ । तच्छिक्षां विष्णुरूचुस्ते किञ्चन्नात्रासमञ्जसम् ॥८५ रे रे दासीसुता यूयमेतत्पक्षं प्रशंसत । इत्यग्निस्तुन्दमाहन्तुं क्षणात् प्राकाशयत् क्षुरीम् ॥८६ ततः श्रीकरणादेशाद्धन्तुं बद्ध्वाऽत्र चालिते । विष्णुशर्माऽवदद्देव मारितोऽसौ स्वकर्मणा ॥८७ तन्मृतमारणाकीर्ति किं गृहणीथ बुधा इति । विमोच्य तेन नीतोऽग्निर्गृहेऽभोज्यत सोमया ॥८८ तामग्निवार्ता श्रुत्वाऽगाच्छिवशर्माऽथ तद्गृहे । चन्दनादपि शीतानि वचांस्यूचे च तं प्रति ॥८९ सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।। प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥९० जिह्वया दर्भलवनं यज्जनाप्रियभाषणम् । तदसत्याप्रियं मुक्त्वा भव वत्स प्रियंवदः ॥९१ क्रोधयोधवियुद्धेन तद्ध्यानरुधिरैरिव ।
पाटलाङ्गो विलोप्याथ मर्यादां कुललोकयोः ॥९२ ८१.१. कारि".
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org