SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९३-१०५] द्वितीय उत्साहः श्वशुरं शिवशर्माणं वृद्धं नित्योपकारिणम् । मूर्धन्यहन् प्राणहितया स्वगत्या सह सोऽग्निकः ॥९३॥ युग्मम् शिरः स्फोटाद्रक्तकुल्या वेगेन प्रावहद् द्रुता ।। करवीरस्य मालेव तस्य वध्यस्य हेतवे ॥९४ सोमाहाहारवाहूतैरिवारक्षेस्ततोऽग्निकः । पोतावेष्टं गले दत्वा नीतो राजकुले क्षणात् ॥९५ आरक्षैः क्षमापतेरने तवृत्तान्तो निवेदितः । तद्यदादिशति स्वामी तदेतस्य विधीयते ॥९६ पूत्कुर्वती तदेवात्र सोमाऽगात् सह डिम्भकैः ।। दन्तैगृहीत्वाङ्गुलीश्च सा तु राज्ञे व्यजिज्ञपत् ॥९७ गोस्वामिन् निहतेऽत्रेयडिम्भा भाविन्यहं कथम् । तद्दयाब्धेऽमुना साध प्राणान् देहि कुटुम्बके ॥९८ दीनदीनैस्तद्वचनैर्दयया तं नृपोऽमुचत् । धिक्कृतः पूर्जनैरग्निशर्माऽगात् सप्रियो गृहम् ॥९९ अथान्यदा निपत्यायोः सोमया विनयाधिकम् । मधुरं मधुनोऽप्युच्चैरग्निशर्मा न्यगद्यत ॥१०० प्रिय प्रियंवदगिराममित्रोऽपि हि मित्रति । प्रियाप्रियंवदगिरामपि मित्रममित्रति ॥१०१ तदप्रियं परित्यज्य प्रियमेव वद प्रिय । क्रोधोषर्बुधमामूलाद्विध्यापय शमाम्बुभिः ॥१०२ आत्मसन्तापकः क्रोधः क्रोध उद्वेगकारकः । वैरस्यजनकः क्रोधः क्रोधः सुगतिघातकः ॥१०३ आस्वादितं किमप्येतत् त्वयैव हि परेद्यवि । कोपकिम्पाकधरणीरुहस्य कटुकं फलम् ॥१०४ तत्क्रोधवैरिणं हित्वा प्रशमं मित्रमाश्रय । भवन्ति भवतो येन जनाः सर्वेऽपि सज्जनाः ॥१०५ ९४.२. दृतः १०१.४. मिमत्रति Lila. -5 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy