________________
लीलावतीसारे
[१०६-११९
कुरु मित्राणि मित्राणि बन्धून् बन्धून् गुरून् गुरून् । स्वधर्मदेवकुलिकाः पुत्रभाण्डानि वर्धय ॥१०६ प्रिय प्रसीद जीवेम वयमभ्युदयाश्रयाः ।। कि केनापि गुणेनोनं भूतले तावकं कुलम् ॥१०७ इति प्रियाप्रियालापामृतवृष्ट्याऽपि पाप्मनः । एधाञ्चकार परितस्तस्य क्रोधदवानलः ॥१०८ रण्डे तुण्डं च मुण्डं च तवाद्यापि न शिक्षितम् । मत्तोऽपि पण्डितंमन्या या शिक्षादायिका मम ॥१०९ इत्युक्त्वा तां गले धत्वा नीत्वा च द्वारसीमनि । धवार्गलाप्रहारेण सोऽग्निशर्मा यमोऽवधीत् ॥११० सा तेन वज्रघातेन प्राणैर्मुक्ताऽपतद्भुवि । हाहारवस्तु लोकानामुत्तस्थे मुखगहवरात् ॥१११ हा ! धष्ट दुष्ट पापिष्ठ ! निकृष्टानिष्टचेष्टित ! । स्त्रीहत्ययाऽतिचाण्डाल शीघ्रं निर्गच्छ पत्तनात् ॥११२ इति निर्भत्सितः पौरैः स तान् हन्तुमुपस्थितः । यष्टिमुष्टिपाणिघातैः कुट्टितो मूटकाधिकम् ॥११३।। युग्मम् ततः पुरात् स निर्गत्य पुरमत्सरभाक् कुधीः । प्रष्टुं पुरवधोपायमिवागाच्चण्डिकामठम् ॥११४ तदा च तस्य पापस्य पापं द्रष्टुमिवाक्षमः । द्वीपान्तरमगात् सूर्यः प्रासरत् पापवत् तमः ॥११५ याममात्रं स तत्रास्थाद् रौद्रध्यानी पुरोपरि । तद्ध्यानपाप्मनेवाथ शूच्यभेद्यं तमोऽभवत् ॥११६ पिहितासु प्रतोलीषु पुरे चाजनसञ्चरे ।। विध्यापितेषु . दीपेषु जने सुप्तेऽतिनिर्भरम् ॥११७ आरक्षेषु प्रमत्तेषु स पापः पापजागरी । रथ्याकपाटछिद्रेण . कोलवत् प्राविशत् पुरे ॥११८॥ युग्मम् स्राक् कल्यपालचुल्लीतोऽग्नि गृहीत्वाऽग्निशर्मकः ।
द्वित्रेषु तृण्यास्थानेषु स्वगतावपि चिक्षिपे ॥११९ १०७.२. ° श्रया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org