________________
१२०-२३१]
द्वितीय उत्साहः ततः सद्यो हुतवहोऽभ्रंलिहज्वालमालितः ।
कुपितो राक्षसं इव प्रासरत् परितः पुरे ॥१२० अपि च - उत्सर्पधूम्रधूम्याविकचकचशिखाचुम्बिताकाशदेशः
स्फायज्ज्वालाकलापप्रबलभुजलतालिङ्गिताशावकाशः । विष्वग्दंदह्यमानद्विपदगणचतुःपाद्गणाराटिघोरः
क्रूरोदर्चिः पिशाचः कवलयितुमुदैत् तां पुरीं सर्वतोऽपि ॥१२१ कथञ्चिदुपशान्ते च तस्मिन्नाकस्मिकेऽनले । पौरा मिथोऽप्राक्षुरेष उत्पातः कथमुत्थितः ॥१२२ कोऽप्यूचे वेम्यहं वच्मि ब्रह्महत्याभयान्न तु । स एवारक्षकैर्बद्धो भीषितश्च ततोऽवदत् ॥१२३ अग्निशमद्विजेनैवं प्रदीपनमिदं कृतम् । स शोधितश्च लब्धश्च बद्धश्च नृपशासनात् ॥१२४ ताहापुरीदाहदूनै राजपुभिः स पातकी । सिणेन संवेष्ट्य तैलैः सिक्त्वा गन्न्यां निवेश्य च ॥१२५ शिरःप्रदेशे प्रज्वाल्य भ्रमितः परितः पुरीम् । एवंका लप्स्यतेऽद इति घोषपुरःसरम् ॥१२६॥ युग्मम् तया वेदनया रौद्रध्यानेनास्खलिताध्वना । नरके प्रथमे सोऽगात् क्रोधहिंसे प्रनर्तिते ॥१२७ सोत्राऽधिसेहे तदुःखं संख्यातीतमनेहसम् । यद्वर्णनेऽपि भीता न्वर्धपथाद्वलिता गिरः ॥१२८ नरकान्निर्गतः सोऽग्निशर्मजीवोऽत्र भारते । चम्पायां सोमदेवस्य दुर्गतस्य द्विजन्मनः ॥१२९ भार्यायां सोमडीनाम्न्यां रन्नडीति सुताऽभवत् । कुरूपा दुर्भगा मूर्खा मन्थरा रासभस्वरा ॥१३०॥ युग्मम् उद्घाटिता दोषखान्यो गुणखान्यः पिधापिताः । विश्वसृष्टिकृता तेन मन्ये यस्या विनिर्मितौ ॥१३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org