________________
लीलावतीसारे किञ्च - दोषैः सर्वैः संप्रयुक्ता विप्रमुक्ताऽखिलैर्गुणैः । दरिद्रतेव तद्गेहे सा प्रत्यहमवर्धत ।।१३२ यद्वा - तस्यां दरिद्रतायां च गुण एकोऽस्ति विश्रुतः । अचोरहरणीयत्वं गुणान्तरविजित्वरम् ॥१३३ तत्पुरीवासिना पुंसा दरिद्रेणापि केनचित् ।। दीयमानाऽपि न वृता तद्गुणग्रामवेदिना ॥१३४ सा च दुर्गतता चैव वर्धमानाधिकाऽधिकम् । अगृह्यमाणा केनापि बृहतीं वृद्धिमापतुः ॥१३५ सोमदेवस्ततो दध्यौ कोऽपि वैदेशिकः पुमान् । प्राप्यते बध्यते तस्य गलेऽसौ निःस्वतोऽपि च ॥१३६ तत्रान्यदा देशहिण्डी दुष्टभाषी कुदर्शनः । ब्राह्मणो दुर्गतश्चण्डादित्यनामा समागमत् ॥१३७ सोमदेवश्च तं वीक्ष्य वरं पुध्यनुरूपकम् । अभिवादकमित्यूचे त्वं ममाद्य गृहेऽतिथिः ॥१३८ सगौरवं भोजितश्च पुच्युद्वाहाय चाथितः । चण्डोऽप्यचिन्तयदहो शेतां पयसि शर्करा ॥१३९ सोमेन सद्यः सा तेन स्वपुत्री पर्यणाय्यत । चण्डस्तया सहावात्सीत् कुटीरे श्वपचोचिते ॥१४० पलालस्रस्तरे रत्वा शयित्वा श्लिष्टदोर्लतम् । प्रेमसंरम्भविश्रम्भात् प्रातः संलेपतुर्मिथः ॥१४१ चण्डादित्योऽभ्यधादादौ प्रिये मज्जीवितेश्वरि । स्वैरं याचस्व पुर्यात् ते मत्करस्वस्तरुर्मतम् ॥१४२ विजित्य रन्नडी व्रीडां स्माह पुंस्कीट कीकट । पूरय प्रथमं तावद्धृष्ट स्वस्य समीहितम् ॥१४३ चण्डादित्यः - कान्ते मच्चिन्तया किं ते सामन्तामात्यभूपतीन् । अवलग्य श्रियं प्राप्य विधास्ये त्वाऽस्मि काञ्चनीम् ।।१४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org