________________
द्वितीय उत्साहः
रन्नडी - कुतो ममेग भाग्यश्रीः कुतश्चेदृक्कला तव । यया सामन्तमुख्यांस्त्वमाराध्य श्रियमाप्स्यसि ॥१४५ चण्डादित्यः - वीरविक्रान्तपादान्तेऽपूर्वा रेखाऽस्ति मेऽनया । राज्ञोऽमुकात् प्राप्य लक्षं दत्तं भुक्तं यदृच्छया ॥१४६ रन्नडी - बके हंसकला चेत् स्याबंभ्रम्येत न पल्वले । वीरव्रतं चेत् ते भट्ट भट्टवत् किमटाट्यसे ॥१४७ चण्डादित्यः - आ संघर्षविनष्टाऽसि निकृष्टा ब्रह्मघातिनी । रन्नडी - किमाक्रोशसि निर्मान निराशाधम मामिति ॥१४८ चण्डादित्यः - रे रण्डे रुष्टचामुण्डे ममापसर दृक्पथात् । रन्नडी - आः पाप शापयोग्योऽसि संस्तराद्याहि दूरतः ॥१४९ इत्युक्त्वा सोमदेवस्य पुच्याऽसौ पाणिना हतः । चण्डेन चण्डकोपेन सा मूर्त्यर्गलया हता ॥१५० पलायिष्ट स्वयं चण्डादित्य आदित्यपूर्वतः । वैदेशिकानां धूर्तानां गतिरेषैव कश्मला ॥१५१ मन्येऽस्मि सोमा जीवोऽयं चण्डादित्यः कथञ्चन । तेन चक्रेऽग्निशर्मात्मरन्नडीवरशोधनम् ॥१५२ तेनार्गलाप्रहारेण तत्करोटिरभज्यत । नानौषधैस्ततस्तस्याः स व्रणो रुह्यते स्म न ॥१५३ तद्वेदनाभराक्रान्तां रुदती रन्नडी भशम् ।
पितरौ तत्समीपस्थौ धीरयामासतुर्मुहुः ॥१५४ १४६.१. पादाते १५३.३. नानोषधै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org