________________
लीलावतीसारे
[१५५-१६८ अथान्येद्युस्तया साध्यो यान्त्यो गोचरचर्यया । दृष्ट्वाऽऽहूता वन्दिताश्च बहुमानपुरःसरम् ॥१५५ चिन्तित चानया धन्या एताः पूज्या महात्मनाम् । अहं त्वधन्या पापा चेत्यथ ता भणितास्तया ॥१५६ यथेगदुःखभाग न स्यां परत्रास्मि तथाऽधुना । धर्म शर्मकरं ब्रूत दयां कृत्वा ममोपरि ॥१५७ तस्यै जीवदयामूलं ता ऊचुर्धर्ममार्हतम् । रन्नडी स्माह दिशत पूज्या यन्मेऽधुनोचितम् ॥१५८ ततोऽर्हन्तः शरणं मे धर्मश्च तदुदीरितः । इति सामान्यतस्तस्यास्ताभिस्तत्त्वमदिश्यत ॥१५९ तद्ध्यानामृतपानेन मनुष्यायुर्निबध्य च । सुखेनैकाहसंन्यासात् परलोकमवाप सा ॥१६० इतश्च भारतेऽत्रैव श्रीविनीतापुरी बभौ । यां श्रीयोऽकृत राज्याय श्रीयुगादिजगत्प्रभोः ॥१६१ यस्यां जनस्य वसतः प्रायः स्वर्गशिवश्रियौ । स्वयं स्वयंवरे यद्वत् पाणिपझे विलेसतुः ॥१६२ तत्रोदैत्पद्म ऐक्ष्वाकः पृथिवीपाकशासनः । यशोभिः शोभितं यस्य जगत् कर्पूरतामगात् ॥१६३ श्रीप्रियङ्गुलता तस्य पट्टराज्ञीपदं दधौ । यत्सौभाग्यश्रिया जज्ञे सा श्रीरश्रीसमानुमा ॥१६४ पतिप्रेमादिकं सर्व मनोनयननन्दनम् । सा नन्दनं विना मेने निःसर्पिरिव भोजनम् ॥१६५ सुताय नानोपायेष्वनुपायेषु भवत्स्वथ ।। सा रामाकुलदेव्यग्रेऽस्थात् सप्ताहमनाशुषी ॥१६६ ततश्च ततसत्त्वेन तस्याः सद्यः प्रसेदुषी । अवदत् कुलदेव्येयं तव पुत्रो भविष्यति ॥१६७ तव प्रसादतो देवि भवतादेवमेव मे ।। देवीवाचं प्रतीष्येति देवी देवी नमोऽकरोत् ॥१६८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org