________________
१६९-१८१]
द्वितीय उत्साहः ततः स रन्नडीजीवो मध्यस्थगुणयोगभाक् । मुक्ताहारस्तदुत्सङ्गे पुत्रत्वेन व्यज़म्भत ॥१६९ कालेन पुत्रो जज्ञेऽस्या जज्ञे वर्धापनं महत् । . रामया दत्त इत्यस्य रामदेवोऽभिधाऽभवत् ॥१७० क्रमेण वृद्धिमानेष कलाग्रहणहेतवे । कलाचार्यायोपनिन्ये राज्ञा सह कुमारकः ॥१७१ अत्रान्तरे चिरात् प्राप्य तं कुमारं स्वमास्पदम् ।। क्रोधहिंसे प्रनृत्यन्त्यौ सममेवाधितस्थतुः ॥१७२ ततश्चाकारणात् क्रुद्धः कुमारोऽध्यैष्ट न स्वयम् ।। अन्यांश्चाधीयतोऽरौत्सीत् विकथाकलहादिभिः ॥१७३ स्वोदिताकारिणश्चैष सहाध्यायिकुमारकान् । चपेटया पट्टिकया यष्ट्या मुष्ट्याऽवधीत्तराम् ॥१७४ ततश्च तमुपालब्धोपाध्यायः सामसूक्तिभिः । कुमार न हि ते न त्वन्नाम्ना सदृशभीदृशम् ॥१७५ अरे द्विजन्मन् वृद्धोक्ष मत्तस्त्वं पण्डितः कियत् । इति दुर्भाष्य हा सैष तमप्याहंश्चपेटया ॥१७६ ईदृस्वभावः श्रीदेवीपुत्रः श्रीराजवल्लभः । नैष शिक्षापनायोग्य इति तूष्णीं व्यधाद्गुरुः ॥१७७ गुरुणोपेक्षितः सैष कुमारः स्वैरचार्यभूत् । तच्चान्यः स्वस्वमातृणां राज्ञश्चाभिय॑वेद्यत ॥१७८ सम्यग निश्चित्य तद्राज्ञोपाध्यायो रामदेवयुक । आहूयाप्रच्छि वत्सः किं कलापारगतोऽजनि ॥१७९ गुरुर्जगौ स्वयं वेत्ति देवो विष्वगविलोचनः । ज्ञाताकूतस्ततो भूपः सत्कृत्यैनंविसृष्टवान् ॥१८० रामदेवस्तु राटपाधै दीव्यति स्म दिवानिशम् । उपायम्यत समये राजसामन्तकन्यकाः ॥१८१
१७५.३. त्वनाम्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org