________________
४०-५३]
द्वितीय उत्साहः मातरं पितरं भायीं भ्रातरं स्वोपकारिणम् । नाप्यपत्यं गणयति निरपेक्षो हिनस्ति च ॥४० हिंसापरायणः सैष पापात्मा नरकं व्रजेत् ।। नानाकदर्थनास्तत्र सोढ्वाऽसङ्ख्यमनेहसम् ॥४१ तस्मात् कथञ्चिदुवृत्तः क्रूरतिर्यक्षु जायते ।। तत्र निष्कारणक्रुद्धो हत्वा हत्वा बहून् पशून् ॥४२ पुनः पतति नरके पुनः पुनरियं गतिः । . दैवाज्जातु मनुष्येषु जातो बाल्येऽपि कोपनः ॥४३ पितृबन्धुषु विद्वेषी दुष्टाचाराबहिष्कृतः । बहुशस्तद्वधोपायान् कुरुते करुणोज्झितः ॥४४ राज्ञाऽपहृतसर्वस्वः स्वदेशाच्च पृथक्कृतः । हा भ्राम्यति विदेशेषु यथा राजन्नयं पुमान् ॥४५ सामान्योक्तो बुध्यतेऽत्र महत्यां नैष पर्षदि । किञ्चानेन पुरा चके व्यक्तमाख्याहि तत् प्रभो ॥४६ इत्थं विजयसेनेन राज्ञा विज्ञापितोऽभ्यधात् । श्रीसुधर्माभिधः सू रिर्भाद्राम्भोदकिरा गिरा ॥४७ भवन्तमुत्तरेणास्ते यः प्रहारक्षताङ्गकः । स एष राजन्नाख्यातो दृष्टान्तः क्रोधहिंसयोः ॥४८ यथाऽनेन प्राग्भवेषु हिंसाक्रोधैकचेतसा । निबिडं दुष्कृतं चक्रे तदिदानीं निशम्यताम् ॥४९ भारते गीतगान्धारे बुधैर्गान्धारमण्डले । श्रियं काञ्चन बिभ्राणं श्रीकाञ्चनपुरं बभौ ॥५० तत्र च प्राकर्मदोषाद् व्युच्छिन्नपितृबन्धुकः । आबाल्याद् भैक्षवृत्त्या च दुष्करोदरपूरणः ॥५१ परुषासभ्यभाषी च तद्भियेवोज्झितः श्रिया । अग्निशर्मा द्विजन्माऽभूदग्निवद्दाहकारकः ॥५२॥ युग्मम् तत्पितृस्नेह तो दत्ताधारोऽसौ शिवशर्मणा । सोमाभिधानया पुन्या कथञ्चित् पर्यणाय्यत ॥५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org