________________
लीलावतीसारे
[२६-३९ ततः श्रीविजयसेनः सेनया चतुरङ्गया । सान्तः पुरपरीवारोऽधिरूढजयकुञ्जरः
॥२६ मन्त्रिसौवस्तिकश्रेष्ठिसार्थपैस्तैः करेणुषु । समारूढैलॊकपालैरिवेन्द्रः परिवारितः ॥२७ तं चतुर्जानिनं नन्तुं सुधर्मस्वामिनं गुरुम् । चचाल चलयन्मोहराजधान्या सहावनीम् ॥२८॥ त्रिभिर्विशेषकम् ततश्चोपवने तत्रोदितं गुरुमरुत्तरम् । प्रदक्षिणय्य प्राणसीद् भूपतिः सपरिच्छदः ॥२९ सर्वाशीःसारसम्भारसृष्टामिव जगत्प्रियाम् । धर्मलाभाशिष श्रेयःपुषं तस्मै ददौ गुरुः ॥३० यथोचिति निविष्टेषु तेषु क्षितिधवादिषु । श्रीसुधर्मास्यकुहरात् प्रासरद्देशनासरित् ।।३१ ज्ञानदर्शनचारित्रैः शुद्धः संभूयकारिभिः । भव्या अव्याक्षेपतः श्रीमुक्तिराज्यमवाप्यते ।।३२ जीवादिदीपो गज्ञाने तपः प्राकृतशोधनम् ।। संयमो . गुप्तिकृच्चैवं मोक्षो भवति निश्चितम् ॥३३ तेषां च प्रतिबद्धारोऽशुद्धिकारा विनाशकाः । पञ्चास्रवाः पञ्च मोहकषायाः पञ्च खानि च ॥३४ इन्द्रियैर्विजितो मोहकषायैर्जीयतेऽसुमान् । ततः प्राणातिपातादौ सक्तो ज्ञानादि हारयेत् ॥३५ हिंसा क्रोधकषायेण मानेन भणितिम॒षा । चौरिका कैतवेनोच्चैर्मोहेनाब्रह्मसङ्गतिः ॥३६ परिग्रहश्रीलॊभेन कुटुम्बीकृत्य वर्ण्यते । तदाचारः सदृष्टान्तः श्रीराजेन्द्र निशामय ।।३७ तत्परीवारभूतानामक्षाणां तदनन्तरम् । स्वरूपं सोदाहरणं क्षोणीन्द्रोदाहरिष्यते ॥३८ तथा हि - क्रोधान्धश्चिन्तयेद्रौद्रं निष्ठुरं वक्ति सर्वतः ।
हिताहितं न हि वेत्ति हितादेशिभ्य ईर्ण्यति ॥३९ ३३.१. प्राकृत°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org