________________
१३-२५]
द्वितीय उत्साहः परोपकारकारुण्यदानदाक्षिण्यमन्दिरम् पुरन्दरः श्रिया तत्र जज्ञे श्रेष्ठी पुरन्दरः ॥१३॥ युग्मम् यद्वणिज्यापुत्र इवोदीच्यां प्राप्तोऽतिलाभतः । तत्रैव नित्यवास्यस्थाद्धनदः सैष विश्रुतः ॥१४ क्रयाणकषष्टिशतत्रयभृद्भाण्डशालकः । स सर्वदिगवहत्सार्थः सार्थपो धन इत्यभात् ॥१५॥ युग्मम् ते चामात्यादयः सर्वे चत्वारः सुहृदो मिथः । राजप्रसादपात्रं च मेनिरे पितरं नृपम् ॥१६ सत्यसन्धः स राजाऽपि तैश्चतुर्भिः स्वमन्वितम् । युधिष्ठिरमिवामंस्त भीमाद्यैः परिवारितम् ॥१७ किं बहुना - ऐकमत्यात् किलैकात्म्यभाजस्ते पञ्च मूर्तयः । जिनजन्मोत्सवारम्भे शकस्येव विरेजिरे ॥१८ अन्यदेषां राजसौधं सममेबाधितस्थुषाम् । उद्यानपालस्तत्कालोद्भूतचूताम्रमञ्जरीम् ॥१९
दधानोऽभिज्ञानदर्शनायातिवेगतः । आगत्य नृपमानत्य चक्रे विज्ञापनामिति ॥२०॥ युग्मम् देवाद्य नन्दनोद्याने मरुद्भिर्दक्षिणैर्वृतः । चतुर्सान्या चतुष्पक्ष्या खण्डयन् जाड्यविड्वरम् ॥२१ दोषाणां लाघवं तन्वन् पुण्याहानां च गौरवम् । उदारमौरभोद्गारैविश्वमेव प्रमोदयन् ॥२२ राजहंससमुल्लासं सदारम्भोदयश्रियम् । सुमनःश्रेणिवीकाशं विदधानः पदे पदे ॥२३ गुरुराजश्रीसुधर्मा साधुभङ्गैः परिष्कृतः ।। ऋतुराजो वसन्तश्च समं समवसस्रतुः ॥२४॥
चतुभिः कलापकम् स्वर्णलक्षं ददौ तस्मै क्ष्मापतिः पारितोषिकम् ।
कल्पद्रुमाश्च भूपाश्च प्रसन्नाः कुर्वते न किम् ॥२५ १५.१. षष्टः २०.३. नृपनानत्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org