________________
द्वितीय उत्साहः
अथ श्रीसमरसेनसूरिः सिंहमहीपतेः । स्ववैराग्यनिधेर्मूलाद् बीजकं समदीदृशत् ॥१ जम्बूद्वीपे भारतेऽस्ति श्रीवत्सो नाम मण्डलम् । आखण्डलं यत् कुरुते स्वदेशविनिमित्सुकम् ॥२ तत्र पूरस्ति कौशाम्बी कौशाम्बी यद्विनिर्गितिः । अत एव कदाऽप्येषा भङ्क्तुं शेके न कैश्चन ॥३ तां . चारिनारीवैधव्यदीक्षादानैकसद्गुरुः । विजयवच्छीविजयसेनः शास्ति महीपतिः ॥४ बन्धश्रुसिक्तस्तत्पत्रवल्लरीभिरलङ्कृतः । तस्मितैः पुष्पितो यस्य प्रतापपादपोऽशुभत् ॥५ दयादाक्षिण्यनैपुण्यवचक्षण्यगुणाकरम् । रस्माकरी जडमयो यं वीक्ष्याऽत्रपत ध्रुवम् ॥६ सा शची खलु सधीचीमावं यस्याः समैहत । सा तस्य राज्ञोऽतीन्द्रस्य प्रियाऽभूत् कमलावती ॥७ तया सह महादेव्या पुण्यकल्प सत्फलम् । राज्ञो विजयसेनस्य भुञानस्य यदृच्छया ॥८ सर्वराज्यधुरासर्वधुरीणोऽक्षीणवैभवः चतुर्धाधिषणाधीरो मंत्र्युदैज्जयशासनः ॥९॥ युग्मम् यन्मन्त्रशक्त्या राज्यस्य राज्ञः स्वस्य जनस्य च ।। एधांबभूवानुदिनं विभूतिरधिकाधिकम् ॥१० स सर्वशास्त्रोपनिषन्निषण्णाखिन्नमानसः ।। सौरभक्षिप्तकर्पूरः सूरः सौवस्तिकोऽभवत् ॥११॥ युग्मम् लक्ष्म्यलकृतसौवर्णपट्टोद्भास्यलिकस्थलः सर्वपौरजनश्रेणियोगक्षेमपितामहः
॥१२ ५.४. प्रतापः. ९.२. नंव्यु°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org