________________
लीलावतीसारे
[२६९-२८१ सर्वप्रवादिवादेषु वहन् सर्वधुरीणताम् । कक्षीकृत्योत्तरं पक्षं क्षणात् सर्वानशैक्षयत् ॥२६९॥
- चतुभिः कलापकम् अथ सिंहमहाराजो निर्व्याजगुणरागवान् । जिनदत्तं कुलगुरुमिव स्वयमवर्णयत् ॥२७० अहो ते प्रतिभोत्कार्या बत ते वाग्मिताद्भुता । । विरुद्धवादिनोऽप्येतान् वादिनो यदबू बुधः ॥२७१ जिनदत्तो भूधवं तं पुनर्वाचेत्यमोदयत् । गृहमेधी मन्दमेधा नास्मि वादविशारदः ॥२७२ परं यत्पादमहसा प्रकाश्योऽपि प्रकाशकः । आदर्शवदभूवं ते जयन्ति गुरुभास्कराः ॥२७३ महीसिंहः सिंहराजोऽग्रहीद् वाचं सुधामुचम् । यौष्माकीणाः किंस्वरूपा गुरवस्ते महामते ॥२७४ गुरुस्वरूपस्मरणस्फुरद्रोमाञ्चकञ्चुकः । हर्षाश्रुगद्दोऽवादीज्जिनदत्तः शणु प्रभो ॥२७५ महाव्रतधराधीरा भक्ष्यमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मम ॥२७६ अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहान् । महाव्रतान् पञ्च नित्यं प्राणवत् पालयन्ति ये ॥२७७ दुस्तरेऽपि हि कान्तारे रौखेऽन्यविपत्सु च । राजस्ते स्वाङ्गभङ्गेऽपि व्रतभङ्गं न कुर्वते ॥२७८ अकृताकारितं भैक्षमरसं विरसं तथा । कुक्षिमानेन गृह्णन्ति न संगृह्णन्ति किञ्चन ॥२७९ ईश्वरेऽनीश्वरे भक्ते द्विष्टे स्वान्यजनेऽपि च । सुखे दुःखे च ते साम्यामृतकाम्या महाशयाः ॥२८० निरीहा निर्ममत्वाश्चाप्रतिबद्धाः समीरवत् ।
विहरन्तः शुद्धधर्मोपदेशं ददते च ते ॥२८१ २७५.४. प्रभोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org