SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रथम उत्साहः २५७ २६८] अथाचख्यौ प्रवाक् कोऽपि स्वामिन् शृण्ववधानतः । निर्हेतुकं न कायं स्यात् सर्वत्रातिप्रसङ्गतः ॥२५७ कार्य च देहस्तद्धेतोः पितृमात्रं न वाऽस्य सः । पितृपुत्रा नैकरूपास्तद् वैचित्र्यं तु कर्मतः ॥२५८ कुलालभाण्डवैचित्र्यं तद्भोगिप्राणिकर्मतः । जातिस्मृतिर्न नैरात्म्ये देवाः सप्रत्यया न च ॥२५९ दानाद्या निष्फलाः सर्वे सर्वेन्द्रियजयो वृथा । वृथा वृत्तं च पूर्वेषां भुक्तिमुक्तिपदप्रदम् ॥२६० किञ्च - ज्ञानादयः क्वचित्संस्था गुणत्वाद् रूपवत् प्रभो । न च देहादिसंस्थास्ते तद्भदे प्रतिसन्धितः ॥२६१ क्षित्यादौ नास्तिता तेषां ततस्ते पारिशेष्यतः ।। आत्माश्रितास्ततः सिद्धो जीवः कर्म च नैकधा ॥२६२ ततश्च - युक्तिप्रमाणादिविरुद्धमेतत् सर्वकषस्यास्य खलस्य वाक्यम् । श्रोतुं न योग्यं नरनाथ किन्तु दूरात् सकर्णैरपकर्णनीयम् ॥२६३ जल्पाकेऽपि हि चार्वाके तूष्णीकामुपजग्मुषि । उत्तरवादिवादेन प्रमना नृपतिर्जगौ ॥२६४ मेधानिधान कस्त्वं भोः प्राञ्जलिः स व्यजिज्ञपत् । राजेन्द्र जिनदत्तोऽस्मि श्रावको जिनभक्तिभाक् ॥२६५ कर्मसत्त्वेऽपि नैरात्म्ये स्थापिते सौगतैरथ । साङ्ख्यैः प्रकृतिकर्तृत्वे पुंस्कौटस्थ्ये च कीर्तिते ॥२६६ नैयायिकैः सर्वकृत्त्वे स्थापिते च पिनाकिनः । भट्टे च वेदनित्यत्वसर्वज्ञाभाववादिनि ॥२६७ राज्ञा प्रसन्नतासारसृष्टया दृष्टयाऽथ नोदितः । जिनदत्तो गुरुदत्तस्फुरत्प्रातिभवैभवः ॥२६८ २५७.२. निहतुक २६२.४. जीवकर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy