________________
लीलावतीसारे
[२४३-२५६ अथ पाठपथप्रष्ठैः प्रातर्मङ्गलपाठकैः । भूप्रष्ठस्य पुरः पेठे प्रातर्मङ्गलमुज्ज्वलम् ॥२४३ ततस्ते भूभुजा पृष्टाः केनाद्य पठितं पुरः । ध्वानेनाश्रुतपूर्वेणानुध्वानितदिगम्बरम् ॥२४४ तेऽप्यूचुः श्रुतमस्माभिस्तदिव्यध्वनिडम्बरम् । निष्पुण्यकरिव निधिस्तद्वक्ता नैक्षि कश्चन ॥२४५ ततो दध्यौ नृपो मन्ये केनचिद् धर्मबन्धुना । दिव्येन मत्प्रबोधाय पेठे धर्म्यमिदं वचः ॥२४६ परीक्ष्य तद्धर्मतत्त्वं सह धर्मविशारदैः । मयोपादेयमेवं स्याद् वच एतत्फलेग्रहि ॥२४७ सम्प्रधार्येति धात्रीशः प्रातरास्थानमण्डपे । । धर्मस्वरूपं पप्रच्छ सर्वानाहूय तीथिकान् ॥२४८ ततः कश्चिद् धृष्टमतिः स्पष्टमाचष्ट भूभुजे । गुरूपदेशतो धर्मस्वरूपं ते निरूप्यते ॥२४९ देव वस्तुस्वभावोऽयं धर्मः स च शुभाशुभः । जीवाभावान्न कोऽप्यन्यो धर्मोऽन्यभवगामुकः ॥२५० जीवो रूपाद्यभावान्नाध्यक्षः कस्यापि भूपते । नाप्यहंप्रत्ययग्राह्यो विकल्पोऽथ विना ह्ययम् ॥२५१ नाऽनुमेयोऽनुमानं हि प्रत्यक्षाविषये कथम् । तद्धि व्याप्तिबलात् सा च नित्यात् पक्षे कथं भवेत् ॥२५२ मानं न वाऽनुमानादि यतः प्रत्यक्षमेव तत् । तदग्राह्यश्च जीवो न तन्न कर्म शुभाशुभम् ॥२५३ यच्चोच्यते तदभावे कथं विश्वविचित्रता । निर्जीवेषु कुलालस्य भाण्डेषु ननु सा कथम् ॥२५४ कानास्त्यात्मा न कर्मास्ति परलोको न विद्यते । धर्मो वस्तुस्वभावस्तत् तन्निमित्ता विचित्रता ॥२५५ नास्तिकोक्तमिति श्रुत्वा दूनः स्माह नृपः परान् । भोः सत्यमित्यसत्यं वा मृषा चेत् तन्निरस्यत ॥२५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org