SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ २३२-२४२] प्रथम उत्साहः लीलावती च पृथ्वी च मिथःसारूप्यधारिणीम् । यथावसरमेवासौ बुभुजे सिंहभूपतिः ॥२३२॥ चतुर्भिश्च कुलकम् अथ पृथ्वी रत्नगर्भाऽसूत रत्नानि सर्वतः । लीलावत्यपि पुरत्नगर्भा समुदपद्यत ॥२३३ ततः समुद्भूतपूतदोहदा पूर्णदोहदा । सुषुवे सा पौर्णमासी निशाकरमिवाङ्गजम् ॥२३४ तस्य मात्रा स्फुरत्पद्मकेसरस्वप्नदर्शनात् ।। पद्मकेसर इत्याख्यां शुभेऽह्नि विदधे पिता ॥२३५ स राजमन्दिरे कल्पद्रुमवन् मेरुकन्दरे । प्रवर्धमानः क्रमेण जग्राह सकलाः कलाः ॥२३६ ततः कलावन्तममुं पिता युक्तमयोजयत् । यौवराज्यश्रिया पद्मश्रिया च नृपकन्यया ॥२३७ सिंहक्षोणिपतेः परेद्यवि दिवि श्यामान्त्ययामे पुरः प्रातर्मङ्गलपाठ्यनेहसि हशां दृश्येतरः कश्चन । भद्राम्भोधरसोदरध्वनिभरव्याप्ताखिलाशाम्बरोऽ __ पाठीत् पाठकसत्तमः श्रुतिपुटीपेयूषयूषं वचः ॥२३८ देवाकर्णय कर्णतर्णकमनोधेनुस्तनाश्लेषतो राज्यश्रीरिति कामकामसुरभी द्राषिष्ठमायुर्बलम् । आरोग्यं च निरन्तरं प्रतिपदं निर्व्यापदः सम्पदः सर्व प्राग्भवगूढरूढसुकृतस्वःशाखिनस्ताण्डवम् ॥२३९ येत्वेतेन विनाकृताः कृतमहापाप्मोदयान्नारका स्तियञ्चो य इमे च ये च मनुजा ये चापरे निर्जराः । ते सर्वेऽपि हि दुःखदावदहनज्वालावलीविह्वला स्तच्छीसिंहनृसिंह धर्मसुहृदा सौहार्दमुज्जम्भय ॥२४० येनैष राज्यसुखतोऽप्यमुतो वरिष्ठामानन्दचिल्लहरिभिः परितः परीताम् । निःश्रेयसाह्वयमहापुरराज्यलक्ष्मी पाणौ निवेशयति ते वसुधासुधांशो ॥२४१ इत्यूजितं पठितवान् प्रतिनादभङ्गया दिग्देवताभिरभितोऽप्यनुमोद्यमानः । कश्चिद्विपश्चिदधिभूस्त्रिदशस्तिरोभूद्राण्मानसेऽद्भुतसुरः पुनराविरासीत् ॥२४२ २३८.४. पातक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy