SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ २३ २८२-२९३] प्रथम उत्साहः यत्र नोपद्रवो भावी भाविन्योऽभ्युदयश्रियः । तत्रैव देशे तैः पूज्यैः राजन् पादोऽवधार्यते ॥२८२ यत उक्तम् - पद्मिन्यो राजहंसाश्च निम्रन्थाश्च तपोधनाः । यं देशमनुगच्छन्ति तत्रागच्छन्ति सम्पदः ॥२८३ ते च श्वेताम्बराचार्याः परिचर्याः सुरैरपि । राजन् श्रीसमरसेनसूरयो गुरवो मम ॥२८४ इत्युक्ते जिनदत्तेन सिंहभूपः पुनर्जगौ । सखे मम द्रुतं भावि कथं त्वद्गुरुदर्शनम् ॥२८५ देवोद्यानपालकेभ्यो दिश्यतां मां य आदितः । गुर्वागमाद् वर्धयिताऽस्मै दास्ये पारितोषिकम् ॥२८६ एतच्छ्राद्धोक्तमाश्रुत्य पुनस्तं स्माह भूपतिः । अत्रागम्यं प्रतिप्रातमित्र मद्बोधसम्पदे ॥२८७ ततोऽन्वहं तयोर्धर्मक्षोदमोदं वितन्वतोः । अन्यदोद्यानपः प्रोचे देव वर्धाप्यसेऽधुना ॥२८८ पक्कसंटकनिर्मुक्तोऽस्खलच्चरणचञ्चुरः शुद्धसम्यक्त्वशीतांशुर्भास्वरज्ञानभास्करः ॥२८९ विमलाम्बररोचिष्णुर्घनवैमल्यकारकः भुवनं पावयन् विप्वगुच्छलत्कुमुदाकरः ॥२९० प्रतिग्रामं प्रतिपुरं श्रेयः फलमुपानयन् । सबजान् मदयन्नुच्चैः स्फुरत्समयनिश्चयः ॥२९१ सत्तारकर्षिपटलो राजहंसनिषेवितः । जिनप्रबोधमधुरः शरत्काल इवाङ्गवान् ॥२९२ पुष्पकरण्डकोद्याने समाने नन्दनश्रियः । श्रीसमरसेनसूरियतोऽद्य समवासरत् ॥२९३॥ - पञ्चभिः कुलकम् २८३.१. राजहिंसाश्च घ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy