________________
१६
लीलावतीसारे
[ १९१-२०४ सूक्ष्मबुद्धिसुबुद्धयादि निवेश्य मन्त्रिमण्डलम् । येन तन्मन्त्रशक्त्या स्यान्निर्दोषं तव मण्डलम् ॥१९१ राज्ये पुरे च धर्मे च ये स्युः केचन कण्टकाः । त्याज्यास्ते दूरतो येन स्यात् तेषां सुखसेव्यता ॥१९२ षड्दर्शनी रक्षणीया निर्बाधा यदियं मिथः । ... स्वस्वपुण्योपार्जनातः षडंशं ते प्रयच्छति ॥१९३ अक्षाणां चान्तरारीणामपि षटकं वशं नय । तज्जयैर्द्वादशात्माऽस्तु प्रतापस्तेऽति भास्वरः ॥१९४ इति राजपथे सम्यग् गच्छतस्ते महीपते । भविष्यत्यत्र चामुत्रं शिवश्रीरुत्तरोत्तरा ॥१९५ नेत्रपात्रः कर्णपुटैरिति शिक्षा सुधामसौ । पिबन्नुदञ्जलि पितुर्मुदद्वैतं बतातनोत् ॥१९६ पुत्रोपरोधेन राज्यपरिपन्थनया विना । दीक्षोन्मना अप्यथास्थाद् रागृहेऽहानि कत्यपि ॥१९७ अथोपचितसप्ताङ्गं प्रवहद्दाननिर्झरम् । राजसिंहः सिंहराजो बतावद् राज्यकुञ्जरम् ॥१९८ प्रशासति महीं तत्र स्वसेवक इवाम्बुदः । गर्जन् श्रुतिसुधासारं समयं नात्यवर्तत ॥१९९ परस्परस्पर्धयेव बिभ्रत्यः फलसम्पदम् । अहम्पूर्विकया सर्वोषध्यस्तमुपतस्थिरे ॥२०० अगण्यरत्नसन्ताना वृद्धिमन्तः पदं श्रियः । समुद्रास्तस्य मर्यादां नातिजम्मुर्जनाः क्वचित् ॥२०१ साधुबन्धूकृताशेषजगतोऽमुष्य सीमनि । दस्यवो नोभयेऽप्यासन् देशनोामिवार्हतः ॥२०२ न तप्तं वातमपि हि सहते स्म स्वमण्डले । इतीहान्तकनासीरं दुभिक्षं जम्भतां कथम् ॥२०३ विष्वग निवारिताशेषमारिप्रभतिपाप्मनः । तस्योामानशे मारिविकाशं मनागपि ॥२०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org