SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २०५-२१७] प्रथम उत्साहः तस्मिन् विजयमाने श्रीदोषज्ञैकशिरोमणौ । सातका इव चातका निरीक्ष्यन्त न तद्भुवि ॥२०५ नीरुजः पूर्णभोगायु गिनश्चाकुतोभयाः । जनास्तद्भुवि युगलधर्मिरूपा इवाशुभन् ॥२०६ धर्म स्वविद्विषं तस्य नित्यं पार्श्वकवर्तिनम् । अधर्मो ध्रुवमाकर्ण्य प्राचरनास्य नीवृति ॥२०७ अवस्थितश्रियं स्फायच्छ्रीरमयोपिभोगदाम् । मामत्योपभोग्या च विजिग्ये दिवमस्य भूः ॥२०८ प्रतापेनैव नमति सर्वतो राजमण्डले । कुलवृद्धेव पूज्याऽस्य चतुरङ्गा चमूरभूत् ॥२०९ किं बहूक्तैस्तथा तत्र राज्ञि राज्यार्णवोऽवृधत् । यथाऽत्र जैवातृकाः श्रीश्रीधराः कोटिशो बभुः ॥२१० अन्यदाकस्मिकातङ्काज्जयधर्ममहीपतेः विधोविंधुन्तुदग्रासादिवाभूदत्यपाटवम् ॥२११ ततोऽतिसम्भ्रमभरात्याकुलीभूतचेतसः सहसा सिंहभूपाद्याः पितुरन्तिकमासदन् ॥२१२ सद्यः सिंहनृपाहूताः पितुरारोग्यहेतवे । वैद्या नैमित्तिकाः । सर्वे धर्म जीवातुमूचिरे ॥२१३ अश्रान्तबाष्पवृष्ट्याऽथ पङ्किलीकृतभूतलः । सिंहभूपोऽवदद् देवतीर्थे पादोऽवधार्यताम् ॥२१४ ततः श्रीजयधर्माचे धर्मतत्त्वविशारदः । विशांपते शृणु धर्मरहस्यं सद्गुरूदितम् ॥२१५ रागद्वेषविनिमुक्तो ब्रह्मचारी जितेन्द्रियः । सर्वसत्त्वहितोद्युक्तस्तीर्थमात्मैव देहिनः ॥२१६ मलमङ्गाश्रितं तोयैः शोधयन्ति कुबुद्धयः । तीर्थे जीवाश्रितं पापं ध्यानाम्भोभिनिवर्तते ॥२१७ २०७.४. नीवृतिः Lila-3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy