SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १७७१९० ] Jain Education International प्रथम उत्साहः ॥ १७७ अथान्यदा जयधर्मभूपो यामेऽन्तिमे निशः । प्रतिबुद्धोऽन्तिमवयोऽवस्थोचितमचिन्तयत् मया त्राता पैतृकी भूरजिता च ततोऽधिका । द्विगुणिताः कोशाः प्रजावत् पालिताः प्रजाः ॥ १७८ सुहृदः सम्पदं नीता मूर्ध्नि दत्तं पदं द्विषाम् । उद्घता दीनहीनाद्या याचका दायकीकृताः ॥ १७९ यशोभिः सुरभीचक्रे सागरावधि भूतलम् 1 भुक्तं निष्कण्टकं राज्यं दीर्घमायुर्निषेवितम् ॥१८० तदेवमैहिकं कर्म मया चक्रे समन्ततः । पारत्रिकं न चेच्चक्रे न चक्रे तर्हि किञ्चन ॥ १८१ तदत्र कवचहरे कुमारे सिंहनामनि 1 मुदा निधाय भूभारं शिक्षासारं प्रदाय च ॥ १८२ परलोकहितं कर्तुं साम्प्रतं मम साम्प्रतम् । कुमारै राज्यधुर्येऽपि धिग् ये विषयतृष्णजः ॥ १८३॥ युग्मम् इत्थं विचिन्त्य प्रत्यूषेऽरिमर्दनपुरःसरैः I सामन्तैः सूक्ष्मबुद्धयाद्यैः सहामात्यैर्विचार्य च ॥ १८४ राज्ञा सिंहकुमारस्य कुमारस्य पराक्रमैः 1 राज्याभिषेको रचयाञ्चक्रे चक्रे भयं द्विषाम् ॥ १८५ ॥ युग्मम् बाह्यं प्रदाय सर्वस्वमन्तः सर्वस्वदित्सया श्रीसिंहराजायानुशास्तिमददादिति I पिता ॥ १८६ 1 सौन्नत्यनिर्मितिर्मेरोः सान्त्याम्भोधेर्वितानना स्वादूत्कृ(?कृतिः सुधायाः सा यच्छिक्षा सुधियस्तव ॥ १८७ तथापि कल्पमात्रेण मात्रया किञ्चिदुच्यते । कृतकृत्या अपि सन्तो न कल्पमतियन्ति यत् ॥ १८८ न्यायाम्बुदेन विध्याप्यो भुव्यन्यायदवानलः 1 ॥ १८९ येनोल्लसन्ति परतस्त्वद्देशे लक्ष्मिवल्लयः अन्यथाऽयं राजकुलवातेन स्वैरचारतः राज्यं प्रजाश्व देशं च भस्मसात् कुरुते क्षणात् ॥ १९० I For Private & Personal Use Only ક www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy