SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे कदाचिन्मूर्छनाग्रामस्वरतानवितानितम् । तारां धृत्वा मिथो गीतं पयक्षेतामिमौ मुदा ॥१६५ नानापुष्पैः स्वयं दृब्धा भूषा न्यस्य तनौ मिथः । स्वस्वदैवतपूजाभिस्तो निर्वृतिमवापतुः ॥१६६ आश्लेषादि पणीकृत्य कृत्यविद् द्यतलीलया । गाढाश्लेषादि वैदुष्यमसावध्यापयद् वधूम् ॥१६७ शिशिक्षिषू इमौ मन्ये रूपान्तरविकुर्वणाम् । पत्रच्छेद्य च चित्रे च मिथोरूपं प्रचक्रतुः ॥१६८ अन्यदा च - स्वामिन् कीर्येव कन्यान्तःपुरपञ्जरमग्नया । न मया प्रैक्षि पूःशोभा तां दिदृक्षे त्वया सह ॥१६९ लीलावत्येति विज्ञप्तश्चतुरङ्गचमूवृतः । औपवाह्यगजारूढः कुमारः प्रियया सह ॥१७० प्रतिहट्टं प्रतिमठं प्रतिदेवकुलं पुरम् । प्रदर्शयन् स्वयं पत्न्यै तामसौ मुन्मयी व्यधात् ॥१७१॥ त्रिभिविशेषकम् अन्यदा बहिरुद्याने स तथैव प्रियासखः । समीक्ष्य रहसि लतामण्डपानकृतार्थयत् ॥१७२ किं बहुना - सहयानं सहस्थानं सहपाने सहाशनम् । सहस्वापः सहबोधो यद्वैक्यमभवत् तयोः ॥१७३ इति लीलाशतैर्लीलावती सत्याभिधां सृजन् ।। पराक्रमात् सत्क्रमाच्च स्वं नाम च यथार्थयत् ॥१७४ दुष्टानां निग्रहाच्छिष्टानुग्रहाद् युवराजताम् । पञ्चधा विषयास्वादात् सम्पदं च कृतार्थयन् ॥१७५ नित्यं श्रीजयधर्मभूपतिलकश्रीशासनोत्तंसितः पद्मावत्यनघांहिपद्मरजसा संश्लिष्टभालस्थलः । सम्यगन्यायधुराधुरन्धरमणिः सालस्य संघाविधा सिंहः सिंह इहा(?वा)त्यगात शरदः स्फायन्मुदः प्राज्यशः ॥१७६॥ -त्रिभिर्विशेषकम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy