________________
१५२-१६४]
प्रथम उत्साहः पुण्योत्कर्षमयः सुमङ्गलमयः सल्लास्यलीलामयः
संपूर्णः सुनयः सुखाद्वयमयः पाणिग्रहः । श्रीमयः ॥१५२ ततश्च - पद्मावती कमलावत्यादिकेऽन्तःपुरीजने । परिभ्रम्य परिभ्रम्य नृत्यमानेऽतिनिर्भरम् ॥१५३ सुधवाभिस्तारतारं गीयमाने समन्ततः । सुधाधाराधरे श्रुत्यो नाधवलमङ्गले ॥१५४ भट्टथट्टे पठत्यग्रे स्फुरति प्रेक्षणीयके । शिबिकारत्नमारूढौ सुराविव वधूवरौ ॥१५५ विमानितविमानश्रि सत्प्रावेशिकमङ्गलम् । राज्ञः सौध प्राविशतां हृत्सौधं तु मुदद्भुतौ ॥१५६॥ चतुभिः कलापकम् वीक्ष्याऽरिमर्दनेनेत्थं तत्पुत्र्या सम्प्रदानितम् । नृपस्तेनैव तूर्येण . युवराजश्रियाऽर्चयत् ॥१५७ ततः सिंहकुमाराय स्ववध्वं च पृथक् पृथक् । ससर्वद्धि परीवारं प्रासादमददान्नृपः ॥१५८ तत्र चित्रैः सद्विलासैविलासिजनवल्लभैः । लीलावत्या सह सिंहकुमारोऽरंस्त निर्भरम् ॥१५९ तथा हि - कदाचित् कामशास्त्राणि नीतिशास्त्राणि कर्हि चित् । कदाचित् धर्मशास्त्राणि तावाकर्णयतां मुदा ॥१६० प्रश्नोत्तरश्चल बिन्दुव्यस्ताव्यस्तादिभेदिमिः । कदाचित् तौ मिथोऽदत्तां स्वस्वप्रातिभवैभवम् ॥१६१ समस्यापूरणैः काव्यकरणैः कोष्ठपूरणैः । तौ मिथश्चक्रतुर्जातु लाभनप्रतिलाभने ॥१६२ वापीसरःस्रवन्तीषु द्विधा कमलसद्मसु । व्यात्युक्ष्या जात्विमौ कामद्रुमं न्वसिचतां मिथः ॥१६३ धातुमातुकलापूर्ण विपञ्चीपञ्चमामृतम् । । सुधाभुगदुर्लमं जातु तो मिथः पर्यपीप्यताम् ॥१६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org