________________
लीलावतीसारे
[१११-१२4 अभिगन्तुममुं मन्ये क्लिश्यन्तीर्वीक्ष्य कामिनीः । गौर्यामर्धाङ्गसङ्गिन्यामपि न व्यश्वसीन् मृडः ॥११६ लोकोत्तरां रूपभङ्गीं प्रददावस्य यौवनम् । मातापित्रोः पुनरयं बत लोकोत्तरा मुदः ।।११७ इतश्च तत्रैव पुरे जयधर्मप्रभोः सुहृत् । सामन्तो न परं नाम्ना स्थाम्नाऽप्यास्तेऽरिमर्दनः ।।११८ तत्प्रिया कमलमती सतीरत्नशिरोमणिः । भूषणान्यपि भूष्यत्वं निन्यिरे यद्वपुःश्रिया ॥११९ तयोः किल परप्रेमहेमतेजः समुच्चितिः । कलालीलावती लीलावती नाम्ना सुताऽभवत् ॥१२० यत्पदोः श्रीमतोर्मन्ये सोदरं सरसीरुहम् । तेन जज्ञे तदप्युच्चैः कमलाललितास्पदम् ॥१२१ मृग्यो रम्भाश्च वनतो याचितुं पुरवासिताम् । चक्रुर्यदीयजंघोर्वोः स्वं भारमुपदां किल ॥१२२ यस्या नाभीपुष्करं नु त्रिवलीवेणिसङ्गमः । तत्तटे हृदि वक्षोजौ रतिस्मरसुरालयौ ॥१२३ स्मारे सरसि यद्वक्त्रे सुधाकूप्यौ दृशौ किल । नाशा स्वर्णाजमुकुलमोष्ठौ कोकनदे पुनः ॥१२४ यद्दोर्लते मनसिजकल्पद्रुमलते इव । पद्मरागमणीशोणौ पाणी तत्पल्लवाविव ॥१२५ नितम्बबिम्बे ललन्ती वेणी कज्जलकोमलाम् । चक्षुर्दोषहृते यस्यां विधिर्नीलपटी न्वधात् ॥१२६ लोकातिक्रान्तसौभाग्यां भाग्यभङ्गीनिकेतनम् । वाङ्मयातीतलावण्यां सौन्दर्यस्य महाखनिम् ॥१२७ यां निष्पन्नां विधिर्वीक्ष्य विस्मयस्मेरमानसः । .
तत्तत्कारणसामग्र्य स्वहस्तौ चात्यवर्णयत् ॥१२८॥ युग्मम् यस्या आस्यश्रियोऽयं विरजनवसनं पार्वणश्रीशशाङ्कः
संकासोत्तारणानां सरसि सरसिजश्रेणिरेषाऽक्षिलक्ष्म्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org