________________
१२९-१४२]
प्रथम उत्साहः देहधुद्दीप्रदीपाग्रत इदममलं काञ्चनं कज्जलाभं
द्राक्षाखजूरपुंडेञ्जरसमधुसुधाः पाद्यवारीव वाचाम् ॥१२९।। दशभिः कुलकम्
तां मत्तवारणारूढां प्रौढां लीलावती कनीम् । . कटाक्षपुष्पैरर्चन्ती राजमार्गमितस्ततः ॥१३० जगज्जेतुं पुनर्मन्ये नवीनावतरः स्मरः । . श्रीमत्तवारणारूढो राजपाटी प्रचेलिवान् ॥१३१ कुमारसिंहः श्रीसिंहकुमारः प्रेक्षताञ्जसा । सा च तं साञ्जसं यद्वा तारामैन्यभवत् तयोः ॥१३२॥ त्रिभिविशेषकम् तां कन्यादेवतां ध्यायन् राजपाटी विधाय सः । तत्रोन्मनाः समागच्छंस्तां तथैव निरैक्षत ॥१३३ कैषा दृष्टिसुधावृष्टिरित्युक्ते राजसू नुना । . सुबुद्धिरवदद् देव कन्याऽसावारिमर्दनी ॥१३४ ततः कुमारस्तद्ध्यानधाराहारं हृदा वहन् । सौधमध्यास्त तां चैकां पुनद्रष्टुं समैहत ।।१३५ लीलावती तु दृष्ट्वा तं कुमारं मारजित्वरम् । तेनैव हृतसर्वस्वा किलास्थात् स्तम्भवच्चिरम् ।।१३६ ततो गवाक्षादुत्तार्य सा सखीभिः कथञ्चन । शून्यशून्याऽत्याकुलाभिः शयनीयमनीयत ॥१३७ तत्रापि सा तमेवैकं ध्यायन्ती परमात्मवत् । योगिनीव चिरं तस्थौ न पुनः प्राप निर्वृतिम् ॥१३८ सखीभिर्मुहुरुक्ताऽपि सा प्रत्यूचे न किञ्चन । .. ततो धात्र्युपसृत्योचे किं ते वत्सेऽद्य बाधते ॥१३९ हियाऽतिवार्यमाणाऽपि कथञ्चिदवमत्य ताम् ।। राजपुत्री चतुष्कर्ण धात्र्यै स्वाशयमभ्यधात् ॥१४० सिद्धमेतदिति धीरयित्वा तां नृपनन्दनाम् । तदैव धात्री तत्पित्रोस्तद्वत्तान्तमचीकथत् ।।१४.१. राश्या कमलमत्या च प्रेर्यमाणोऽरिमर्दनः । प्रमनाः प्राभृतैः कान्तरुपतस्थे महीपतिम् ।।१४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org