________________
१०२-११५]
प्रथम उत्साहः विलासिनां कुलगुरोः स्वमित्रस्य मनोभुवः ।। निवस्तुमेष्यतो मन्ये पुरतः प्रत्युपेक्षितुम् ॥१०२ तं श्रेयोनिलयं राजतनयं भशमुन्नतम् । प्राविशद्यौवनं लावण्यादिभिः सह साधुभिः ॥१०३।। युग्मम् ततः स्फुरत्केशपाशं तस्य वृत्तोन्नतं शिरः । यौवनस्य ययो (१)राजच्छत्रं न्वाभात् सचामरम् ॥१०४ तन्मूर्धनालिकेरस्याभितो लम्बे श्रुतीलते । स्कन्धावनीस्पृशौ व्यानञ्जतुर्युम्ननिधि ध्रुवम् ॥१०५ तथास्येन्दुः सुवृत्तोऽस्याभूद्यथेक्ष्य हरो ध्रुवम् । मुहुर्मूर्त्यक्षिपत् पाणिं गतां जानन् शिरःकलाम् ॥१०६ प्रेक्ष्यतेऽस्योन्नती स्कन्धौ नूनं श्रीखण्डपाण्डुरौ । स्वेभकुम्भौ विदन् मुष्टौ ययौ दिव्याकुलो हरिः ॥१०७ शस्त्रोपनिषदाचार्यों बाहू तस्यौपजानुको ।। जातौ रिपुस्त्रीवैधव्यदीक्षादाने भशोद्यतौ ॥१०८ वक्ष्यतोऽस्याचिरात् पृथ्वीं पुर एवाभवद् भुजौ । .. दोषः पूरयितुं धात्रीवहनव्यसनं किल ॥१०९ द्विषत्पुर्यः कपाटेषु भग्नेषु तदुरः श्रिया । मन्येऽपि वन्यसत्त्वानां सुखगम्याः सदाऽभवन् ।।११० असौ कृतिर्वज्रसारस्येति व्यञ्जयितुं ध्रुवम् । .. तन्मध्यं वज्रमध्यस्य महिमानमदर्शयत् ॥१११ धीरोऽयं मां धराभाराच्चिरं विश्रमयिष्यति । इतीवोपादितौन्नत्यं तत्पदोरादिकच्छपः ॥११२ प्रतिष्ठित यौवनेन कामदेवममुं नवम् । का कामिनी नोत्त्वराऽभून् न्यस्य हृन्निलयेऽचितुम् ।।११३ स्त्यानो विश्वस्य शङ्गाररसो वीररसोऽथवा । जनैरमान्यसौ लीलावेश्मोद्भटवपुलतः ॥११४ अमुं सुभगसीमानमभ्युद्यद्रागसागराः ।
अताडयन् विलासिन्यो दक्तरङ्गैः समन्ततः ॥११५ Lila.-2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org