SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [८९-१०१ लीलावतीसारे कलाचार्याय नृपतिर्नाम्ना कुशलबुद्धये ।। महीयसोत्सवेनाध्यापयितुं तमथार्पयत् ॥८९ दृष्टमात्राणि शास्त्राणि सोऽध्यैप्ट सकलाः कलाः।। सञ्जातजातस्मरण इव सन्निभदर्शनात् ॥९० तथाहिसपञ्चाङ्गशब्दविद्यासाहित्यान्वीक्षिकीमुखान् । सरहस्यानपाद्ग्रन्थान्नदीपूरानिवार्णवः ॥९१ उपायशक्तिषाड्गुण्यादिकनानाध्वसङ्कुलाम् । सोऽलविष्ट सुदुर्लङ्घ राजनीतिमहाटवीम् ॥९२ अष्टोत्तरशतव्याधितमिस्रकसहस्ररुक चक्रे तेन मनःस्थास्नुरायुर्वेदः स्वनामवत् ॥९३ चतुर्धाऽभिनयातोद्यवृत्तितूर्यत्रिकाद्भुतम् ।। गान्धर्ववेदमखिलं सोऽबुधभरताधिकम् ॥९४ यतयातमदावस्थादन्तघातादिदीपकम् विदाञ्चकार स करिशास्त्रं तच्छास्त्रकारवत् ॥९५ नानाविधावतधाराचिकित्सोर्मिभिराकुलः । तेनाश्वलक्षणाम्भोधिः कुम्भोद्भववदापपे ॥९६ नियन्त्रितस्य(?) दशधा राधावेधादिभेदतः । सोऽस्त्रवेदमनिर्वेदं विवेद श्वेतसप्तिवत् ॥९७ इत्थं कलाभिः सर्वाभिः संपूर्णः पूर्णिमेन्दुवत् । भूषणैरिव च गुणैर्भूप्यते स्म स सर्वतः ॥९८ अथाखिलकलावल्लीविलासद्रुमवेक्ष्य तम् । उपाध्यायं नृपोऽभ्यचत् कल्पद्रुममहेपयन् ॥९९ ततो गुणग्रामकलाकलापकमलामयः ।। यशःशशी कुमारस्य समुदज्वलयज्जगत् ॥१०० पितृभक्तिर्दया दानं दर्शनार्चनमित्यदः । तत्त्वं सत्त्वमिवैतस्य सदाऽपि सहचार्यभूत् ॥१०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy