________________
७-८८
प्रथम उत्साहः
मरीचिवीचिनिचिते स रिङ्खन् मणिकुट्टिमे । जलक्रीडामिवाभ्यस्यन् मृगाक्षीभिनिरक्ष्यत ॥७५ तं धूलीधूसरमहंपूर्विकातोऽङ्कमाप्य ताः ।। तद्रजोऽझे लगच्चान्द्रोचूलनं किल मेनिरे ॥७६ महीन्द्रर्दक्तरङ्गैस्तं स्नाप्यमानं वहन् हृदि । सिंहासनस्थः क्षमाशक्रः शकलीलामधत्त ताम् ॥७७ तमूभूय हस्ताब्जे स्वर्णवर्ण वहन्नृपः । करस्थहेमकलशस्नात्रकारश्रियं दधौ ॥७८ नम्राग्रकायो भ्रमयन्नगुल्याऽमुं स कुट्टिमे ।। लोलल्लुम्बिभरानम्ररम्भास्तम्भरमामधात् ॥७९ धन्यंमन्यैः स निन्येऽङ्कमकादवनिनायकैः । चक्रवाक इवोर्मीभिः कमलात् कमलान्तरम् ॥८० बन्धूनां नामधेयानि शिक्ष्यमाणः स कीरवत् । अवाणो मन्मनं पित्रोः श्रुत्योः पीयूषमक्षिपत् ॥८१ प्रक्वणन्तौ विरेजाते तत्पदोदिव्यघरौ । जगच्चिन्ताकृष्टिमन्त्रपाठको मान्त्रिकाविव ॥८२ चलतोऽस्य हृदि झलज्झलन्ती च ललन्तिका । चकाशे कौस्तुभमणिर्मुरारेरिव वक्षसि ॥८३ चलाचले नवमणी कुण्डले तस्य रेजतुः ।। कलादानार्थमायातौ सुरासुरगुरू इव ॥८४ स चूलारत्नचूलाभूद्दिव्यरूपमनोरमः ।। सञ्चकासांचकारोच्चैरेषोऽसुरकुमारवत् ॥८५ सलीलं प्राङ्गणभुवि क्रीडित्वा सिंहशाववत् ।. अध्यारुरोह धावित्वोत्सङ्गमेष महीभृतः ॥८६ सवयोभिः सरूपैः स कुमारो राट्कुमारकैः । . चिक्रीड नन्दनाक्रीडे जयन्त इव निर्जरैः ॥८७ इत्थं विविधलीलाभिर्वर्धयन् जगतो. मुदः । .. वर्धमानोऽनुक्रमेण स बभूवाष्टवार्षिकः ॥८८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org