________________
लीलावतीसारे
६४-७४ स्वर्णलक्षप्रदानेन । नृपोऽप्येतामवर्धयत् । तादृम्हर्षभरारूढै राजभिर्नेति दुष्करम् ॥६४ अथ प्रगे नृपादेशान्नृपागारे पुरेऽभितः ।। नियुक्तैः कारयाञ्चक्रे पुत्रजन्ममहोत्सवः ॥६५ तथाहिनृत्यद्वन्दनमालिकं प्रपठितानुत्तालवैतालिक
व्यालोलत्सुममालिकं नरिनृतद्गोपाङ्गनाबालिकम् । गन्धाम्भः परिषिक्तभूमहिलिकं नालोलच्छत्केलिकं
__ भास्वत्तोरणतापनीयतलिकं मङ्गत्यकुम्भालिकम् ॥६६ उद्यत्कौशलिकं प्रपूर्णरयिकं काश्मीरसिक्तालिक
द्वारि द्वारि समुल्लसत्कदलिकं कस्तूरिकाालिकम् । नानाश्चर्यरसोर्म्यतीतजनताचेतःसरःपालिकं
चक्रे राजगृहं गृहं च नृपतेः स्वःकल्पमाकालिकम् ॥६७ ॥ युग्मम् इत्युत्सवै राजगृहे मुन्मये द्वादशेऽहनि । नृपतिर्बान्धवान् पौरान् प्राश्य संवस्थ्य चादरात् ॥६८ मात्रा स्वप्ने सिंहदृष्ट्या रासिहोऽयं भविष्यति । इति तस्य कुमारस्य सिंह इत्यभिधां व्यधात् ॥६९।। युग्मम् ततः श्रीजयधमौर्वीभतो मन्दिरकन्दरे । सुखात् पर्यवृधद्बालः स केसरिकिशोरवत् ॥७० धात्रीभिः पञ्चभिः सम्यगेकान्तहितहेतुभिः । सोऽपाल्यतालाल्यतोच्चैधर्मः समितिभिर्यथा ॥७१ क्षणं मूनि क्षण स्कन्धे क्षणं कण्ठे क्षणं हृदि । क्षण बाह्वोः क्षणे पाण्योः क्षणमङ्केऽथ जानुनोः ।।७२ मुहुः पद्मावतीदेवी तमधात् पुष्पदामवत् । सर्वभूषाधिक मेने साऽमुं सर्वाङ्गभूषणम् ॥७३॥ युग्मम् देव्योऽन्तर्यस्य तं बालं सतालं सममाह्वयन् । स यत्पार्धं ययौ शच्या अप्यने स्वममंस्त सा ॥७४ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org