________________
प्रथम उत्साह
देवि सिंह इवाधृष्यः क्रमविक्रमवांस्तव । पुत्रो भावीति सुफलश्रिया तां सच्चकार सः ॥५० उदञ्चदुच्चरोमाञ्चत्रुटत्कञ्चुकबन्धना राज्ञी व्यज्ञापयद्राज्ञे स्तादेवं देववैभवात् ॥५१ ततो राज्ञाभ्यनुज्ञाता मुदिता सौधमागता । पद्मावती निधिमिव तं गर्भमवहन् मुदा ॥५२ यथा यथाऽवृधद्गर्भः पद्मावत्यास्तथा तथा । सोभाग्याद्यवृधत्तत्राप्यहो तस्य स्वपत्यता ॥५३ रवावुदेष्यति प्राची प्रभापूरमिवाद्भुतम् । तृतीये मासि बिभराञ्चक्रेऽसाविति दोहदम् ॥५४ सपयीं जिनतीर्थानां गुरूणां प्रतिलाभनाम् । वात्सल्यं बान्धवानां च भीतानामभयप्रदाम् ॥५५ अमारिघोषणादानं . शुद्धसिद्धान्तपूजनम् । चिकित्सनं रोगिणां च सर्वदर्शनगौरवम् ॥५६ दीनहीनान्धपशूनां दयादानं च सर्वतः । मोक्षणं बन्दिबद्धानां सा कारयितुमैहत ॥५७॥ त्रिभिविशेषकम् राज्ञो विज्ञप्तिमात्रेण तत्तथा समपद्यत । कल्पद्रुमे हि स्वाधीने दुःपूरं किं महात्मनाम् ॥५८ अथ प्रीत्येव पूर्णेषु मासेषु दिवसेषु च । ग्रहेष्वत्युच्चसंस्थेषु विमले च दिगम्बरे ॥५९ सिंहीव सिंहशिशुकं प्राची वा हिमरोचिषम् । सुखात् पद्मावती देवी शुभेऽह्नि सुषुवे सुतम् ॥६०॥ युग्मम् ततः काचित् स्तनभरात् श्रोणीबिम्बभरात् परा । काचिन्मन्दगतितया परिष्कारभरात् परा ॥६१ हर्षबाष्पप्लुताक्षाऽन्या हर्षग्रहिलिता परा । हारस्खलत्पदाऽन्या नाशकद्वद्धयितुं नृपम् ॥६२॥ युग्मम् प्रियंवदा तु लध्वङ्गी मनःपवनवेगतः । श्रीमत्पद्मावतीपुत्रजन्मनाऽवर्धयत् प्रभुम् ॥६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org