________________
CC
[३६-४९
लीलावतीसारे या स्वं पतिं च गोत्रं च सनाथयति सू नुना । योषितः पुरतस्तस्याः कास्तु चिन्तामणिदृषत् (?) ॥३६ अहमेका त्वधन्यानां धुरीणा रीणभाग्यिका । इति याऽद्यापि सत्पुत्रोत्सवश्रीणां न भाजनम् ॥३७ इति चिन्ताचान्तचित्ताऽवरुह्य सहसा ततः । ततः पद्मावतीदेवी ममज्जारतिसागरे ॥३८ कुलवध्वा तयैवात्तमना इव न देव्यसौ । किञ्चिन्नियुङ्क्ते भुङ्क्ते वा वक्ति वा विविनक्ति वा ॥३९ तां तथाऽवेत्य नृपतिर्जयधर्मोऽतिवेगतः । तत्समीपमवापत् तत्प्रेमदाम्नेव कर्षणात् ॥४० सोऽथ देव्या स्वयं दत्ते सिंहासने निषेदिवान् ।। तां पप्रच्छारते/जं प्रेमपिच्छिलया गिरा ॥४१ ततो मन्दाक्षमन्दाक्षी बाष्पाविलविलोचना । साऽब्रूत पत्ये स्वाकूतं यथाभूतं सुपूतवाक् ॥४२ राजा तद्दःखसङ्क्रान्त्या तदैकात्म्यमिव ब्रुवन् ।। अप्राक्षीन् ज्ञानिनो देव्याः पुत्रायोपायमादरात् ॥४३ ततः कोऽपि किमप्यूचे सुबुद्धिर्मव्यथार्हतः ।। जिनशासनयक्षार्चामवादीत् सार्वकामिकीम् ॥४४ महाराजोऽथ राज्ञी च स्वयं सौधेऽहंदर्चनम् । प्रारेभाते महर्याऽहज्जितौ स्मररती इव ॥४५ तथा पुरस्थचैत्येषु श्रीशासनसुरेषु च । सपयों मन्त्रिणां वर्चस्तावचीकरतां मुदा ॥४६ अथामेयभागधेयाकृष्टो न्वादिमकल्पतः । देवः कश्चिदवातारीत् श्रीदेव्या उदरान्तरे ॥४७ तबाहनमिव महासिंहमुत्पुच्छनोच्छ्रितम् । सौम्यं स्वास्ये प्रविशन्तं स्वप्ने प्रैक्षिष्ट देव्यसौ ॥४८ तं च सिंहं महास्वप्नं राजसिंहाय भूभुजे । देवी निवेदयामास शोभते तुल्यसङ्गमः ॥४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org