________________
प्रथम उत्साहः
तत्रापि मध्यमं सर्वोत्तमं खण्डं वसन्तवत् । पुण्य x x x x xदिनररत्नविलासभूः ॥२२ श्रीमगधाजनपदः पदमद्भुतसम्पदाम् । तत्र सौधर्मकल्पस्य कल्पनामपि लुम्पति ॥२३ तत्र राजगृहं नाम पुरं देवकुलाकुलम् ।। श्रीसौधर्मावतंसस्य लीलां कर्षति लीलया ॥२४ तस्मिन् पृथ्वीसहस्राक्ष इक्ष्वाकुकुलभूषणम् । जयी श्रीजयधर्माख्यः प्राज्यं साम्राज्यमन्वगात् ॥२५ जैनधर्म स योx(?)ये दधौ जातु कराम्बुजे । हृत्पद्मतश्चुतं नित्यं नामुचत् परमात्मवत् ॥२६ शीलशालीन्यकौलीन्यभाग्यसौभाग्यसेवधिः । देवी पद्मावती तस्य शचीपदमशिश्रियत् ॥२७ जिनं तदर्चनाथं नु पतिं च हृदि साऽवहत् । समीचीनं तx(?)त्सूत्र शीलकर्पूरसौरभम् ॥२८ तां च साम्राज्यलक्ष्मी च भुजानस्य यथोचिति । घना दिनास्तस्य राज्ञो ययुरेकनिमेषवत् ॥२९ अथान्यदा चन्द्रशाला भव्ययन्ती मुखेन्दुना । सा देवी सपरीवाराऽऽरोहद्रष्टुं पुरश्रियम् ॥३० वीक्षमाणा सुधावृष्टिं दृशोः सा च पुरश्रियम् । क्वापि हर्म्यतले स्तन्यं धयन्तं स्वं स्तनन्धयम् ॥३१ ब्रुवाणां मन्मनालापैः खेलयन्तीमनेकधा । काञ्चित् कुलवधूं दृष्ट्वा मनस्येवमचिन्तयत् ॥३२॥ युग्मम् 'धन्याऽसौ कृतपुण्या च भाग्यसौभाग्यवत्यपि । यैवमके निज बालं मसx (?)मिव पश्यति ॥३३ जीवतात् पतिराचन्द्रं सौभाग्य सर्वतोऽस्तु च। . परं जीवन्मृतिकेव सुपुत्रेण विनाऽङ्गना ॥३४ रूपं मनाग हरत्येष मातुर्दत्ते तु सर्वतः । आदत्ते रसमुष्णांशुदत्ते कोटिगुणं पुनः ॥३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org