SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे गदकुग्रहसिद्धयर्थ सिद्धयर्थं च परात्मनोः । लीलावतीकथासारः सादरं रच्यते मया ॥११ सारोद्धारः श्रीतिलकमज्जादेर्बुधैः कृतः ।। तेन तत्रानुजानन्तु नावजानन्तु सत्तमाः ॥१२ वर्णनादि विनाऽप्येषा सहृदो रमयिष्यति । xxनान्त सौन्दर्य यदुपाधिं विना स्फुरेत् ॥१३ महीयोऽदः कथावृत्तं लघीयस्यत्र गायति (?) । करी गिरीन्द्रकल्पोऽपि संक्रामेन्मु - (मंद?)रोदरे ॥१४ नानाभणितिभङ्गीभिः सारेयं सर्वथा कथा । नाम्नि तxxxxस्य सारो मूलं प्रकीर्त्यते ॥१५ पदैश्च सुप्रतिपदैः पान्थैर्वैदर्भवम॑नि । सुखात् कथासुधास्वादः सदस्यानां विधास्यते ॥१६ मात्रादातेव सभ्यानां सुश्रूषावृद्धि भैषजम् । लीलावत्याः पिण्डितोऽर्थः सितापिण्ड इवोच्यते ॥१७ कोशाम्ब्यां विजयादिसेननृपतिः काम्योत्तमाङ्ग किल श्रेष्ठिश्रीसचिवौ पुरन्दरजयस्पृक्शासनौ दोलते । शूरश्चापि पुरोहितो हृदयभूः सौभाग्यभनयाऽद्भुता धःकायो धनदेवसार्थग इमे श्रीमत्सुधर्मप्रभोः ॥१८ पादाम्भोरुहि रामदेवचरिताद्याकर्ण्य दीक्षाजुषः सौधर्मे त्रिदशा बभूवु --- --- यः । ते श्रीसिंहनृपादितामुपगताः श्रीनेमितीर्थेऽसिधन् संक्षिप्येति कथाङ्गनाङ्गभणितिविस्तार्यते श्रूयताम् ॥१९॥ युग्मम् ओङ्कार इव मन्त्राणामक्षराणां त्वकारवत् । द्वीपानामादिमो द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥२० तस्यानादेरपि सप्तवर्षस्याभाति भारतम् । वर्ष परिवृतं षभिः खण्डैवर्षमिवर्तुभिः ॥२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy