________________
३९८
लीलावतीसारे
षपमासमन्यद्दशमादिकं तप आचाममत्रापि हि पारणादिने । स्याद् द्वादशेऽब्दे खलु कोटिसंहितमाचाममत्रापि तपो विकृष्टकम् ॥५१ संलेखनामिति विधाय कृताष्टमोऽसौ
स्वाधीनतामगमयन् किल केवलर्धिम् । एवं तप्रोभिरभिपश्यति यत् सखीयं
सा काऽप्यहो विजयते बत मुक्तिकान्ता ॥५२ आरुह्य निष्प्रतिमवीर्यरथं ससूतः
श्रीकार्तवीर्यमुनिरायतमुक्तिसौधम् । सा सद्य एव किल केवललक्ष्मिकाख्या
सांमुख्यमन गमिता रमिता च तेन ॥५३ अतः(?) पेयं गेयं न नववसनं स्पर्शसुखनं
न विस्फारा हारा न च परिमलः कोऽप्यपमलः । रसोदारा सारा न च रसवती नापि सुदती
समुन्मीलल्लीला स्मरनिवसतिर्यत्र युवतिः ॥५४ । कु - शंसो - स्मिन्निति हतगतिम्यितुतरां
परं त्यक्त्वाऽशेष विषयपटलं निस्तुषधियः । निषण्णा अध्यात्म शमशमनिशं शान्तमनसो
लभन्ते तद् यस्यावकरमपि नोचुविषयजम् ॥५५॥ युग्मम् अवर्णैरस्पर्शेररसजनिसंस्थानतनुकै
रगन्धैनिःसङ्गैर्हतसकलवेदैरपि ततः । मुनीन्द्रेस्तैर्मुक्तौ सुखमनुपमं स्याद्यत इदं
वशीशा कर्षन्ति प्रशमसुखभनयाऽत्र यदणुम् ॥५६ न शोकोऽपि स्तोको न च खलु मृषा नाऽप्यशिशिषा
न चाधिर्न व्याधि निमृतिजरा न प्रसृमराः । सदामन्दानन्दामृतरसघनास्वादविधिना
. समस्ता अप्यस्ता इव समभवंस्तेष्वपि लवम् ॥५७ ५४.२. अनमलः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org