________________
एकविंशतितम उत्साहः तं नमस्यितुमथाभ्यगान्मुदा कार्तवीर्यनृपतिर्महद्धिभिः । । पद्मकेसरगुरुश्च देशनां क्लेशकन्दखननीं विनिर्ममौ ॥४१ अबुध्यत महीपतिझटिति कार्तवीर्यो यतो
___ महत्सुगुरोर्वचो भवति साक्षिमात्रं परम् । विधाय वसुधाधवं सपदि पद्मचन्द्रं सुतं
स्वयं तु स निरक्रमीत् स च शुकात्मकः सारथिः ॥४२ अभूच्च सकलागमोपनिषदां पदं सोऽचिरात्
ततश्च गुरुणा व्यधीयततरां स गच्छाधिपः । स्वयं तु गुरुरन्यदा विदधदेव सद्देशना
मुपाक्रमत सत्वरं किमपि सर्वयोगच्छिदे ॥४३ तथा हि - आदौ वाङ्मनसे स चादरे तनुयोगे न स तादृशाऽधीत् ।
एकेनैव निहन्ति पत्रिणा कृतहस्तो ह्युभये शव्यके ॥४४ काययोगेन सूक्ष्मेण तं बादरं सोऽजयद् दन्तिनं तद्रदेनेव भोः । सूक्ष्मवाक्चित्तयोगावसावेकदा काययोगेन सूक्ष्मेण निर्जिग्यिवान् ॥४५ क्लप्तकार्य ततोऽसौ मुनिः सूक्ष्मकं काययोग क्षणाद्गेहरत्नं यथा ।
स्वेन विध्यापयामास योगीश्वरः सोऽथ शैलेशी -- -- - - - - - ॥४६ निरुद्धनिखिलाश्रयः सपदि पादपौपम्यकं विधाय विधिना क्षणात् किमपि वर्यपर्यककम् । निहत्य - - - - - निबिडकर्मविद्विघटामसिध्यदनुरूपतां बत ययौ च वीरप्रभोः ॥४७
श्रीकार्तवीर्यो गणधारिरत्नं प्रबोध्य तान्तं विषयेषु भव्यान् ।
पर्यायमुच्चैः प्रतिपाल्य चान्ते संलेखनामारभतैवमेवम् ॥४८ चत्वारि वर्षाणि तपोऽष्टमान्तं तत्पारणे सर्वमिहेषणीयम् ।। पुनश्च चत्वारि तपोऽष्टमान्तं विना विकृत्या त्विह पारणं स्यात् ॥४९ संवत्सरौ द्वौ च तपश्चतुर्थमायाममेवात्र च पारणे स्यात् । षण्मासमन्यच्च तपोऽष्टमान्तमायाममत्रापि हि पारणे भोः ॥५० ४४.३. नैवं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org