SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [३३-४० अथान(?)मलकेवला मुनिधुनीसहस्रान्विता सदैव जगतीश्वरो रशिरोऽवतंसोपमा । जगत्रितयपावनी सुरसभाजिता जाह्नवी वदुद्यतविहारिणी भुवि रराज लीलावती ॥ ३३ भवार्णवमहातरी भगवती विहृत्याभितो यदाऽनशनसुस्थिता स्थितवतीह लीलावती । तदैव सुरसुन्दरी रमणमत्युपैत् केवलं सुरैः कृतमहामहा युगपदेव तिस्रोऽसिधन् ॥३४ किं प्रागजनुर्गुरुसुधर्मविभोर्भवान्तरं मूर्त्यन्तरं समरसेनमुनीश्वररस्य वा । श्रीकेवलश्रिय उत प्रचलन्निकेतन श्रीसिंहसूरिरिह सिंह इवाऽजयच्चिरम् ॥३५ सैष श्रीसिंहसूरिस्तरणिरिव भुवो भासकस्तारकश्च ___ सैष श्रीसिंह सूरिविधुरिव जगतस्त्रायकः प्रीणकश्च । सैष श्रीसिंहसूरिस्त्रिदशशिखरिवत् प्रोन्नतोऽभीष्टदश्च सैष श्रीसिंहसूरिस्त्रिजगति यदि वा निःसमानो बताभूत ॥३६ चिरं विहृत्या जगतीं विबोध्य श्रीसिंहसूरीश्वरआयुरल्पम् । वेद्यादिकर्माधिकमाकलय्य सद्यः समुद्घातमिति व्यधत्त ॥३७ तद्यथाचक्रे पूर्वक्षणेऽसौ निजतनुपृथुलं दण्डमात्मप्रदेशै रूधिोलोकमानं तदितरसमये त्वीदृशं साकपाटम् । स्फार पूर्वापरणेत्यथ परसमये दक्षिणेनोत्तरेण क्षुब्धं तादृक्षमेवान्तरभरणमथानुक्रमात् संजहार ॥३८ क्षमयित्वा परितोऽपि सङ्घमनघं प्राप्तोऽथ शैलेशिका क्षपयित्वा निखिलानि तानि च भवोपग्राहिकर्माण्यपि । रुचितेऽनन्तकपञ्चकेन सततं लोकाग्रचूडामणौ शिवसौधे समयेन राज्यलभत् श्रीसिंहसूरीश्वरः ॥३९ पद्मकेसरमुनीन्द्र केवलीमण्डलेषु सुचिरं विहृत्य सः । कार्तवीर्यनृपतेरनुग्रहं वीक्ष्य राजगृहमन्यदा ययौ ॥४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy