________________
३८३
२३-३४]
अष्टादश उत्साहः एवं विमलसेनोऽपि बुद्ध्वाऽऽयुःशेषमात्मनः । गुरूननुज्ञाप्य साधं गीताथैः प्रतिचारिभिः ॥२३ श्रीसम्मेतगिरेः शङ्गे सुपुष्कलशिलातले । पद्मासन्यैवमूचेऽथ मौलिकुड्मलिताञ्जलिः ॥२४॥ युग्मम् नमो भगवते नेमिस्वामिने शिवगामिने । भूर्भुवःस्वस्त्रयीपूज्यपादाय परमात्मने ॥२५ तथानमोऽर्हद्भ्योऽस्तरागेभ्यः सम्यग्वाग्भ्यश्च केवलात् ।। अर्हत्सिद्धादिभेदेभ्यः सिद्धेभ्यश्च नमो नमः ॥२६ गणभत्प्रमुखेभ्यश्चार्येभ्य स्तान्नमो नमः । उपार्येभ्यः सर्वाङ्गाध्यापकेभ्यो नमो नमः ॥२७ महाव्रताद्रीन्द्रभृद्भ्यः साधुभ्योऽपि नमो नमः ।। मनसा वपुषा वाचा वंदेऽस्मि परमेष्ठिनः ॥२८ तेषां च पुरतः सर्वानतिचारान् विशोधये । यदेते
धर्मप्रासादसूत्रधारसहोदराः ॥२९ यन्मयाऽनादौ संसारे मिथ्यात्वावृतबुद्धिना ।। अनार्यमुपदिष्टं तद्गहें निन्दामि सर्वतः ॥३० नास्ति जीवो नास्ति धर्मः सर्वज्ञो नास्ति कश्चन । नास्तिकेन मयोचे यद्गहें निन्दामि तत् त्रिधा ॥३१ यत् स्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । देवत्वेन मयौच्यन्त गर्दै निन्दामि तत् त्रिधा ॥३२ पापश्रुतं यच्च मयाऽधीतमध्यापितं तथा । प्रतिक्रामामि तत् सर्व सर्वथाऽपि हि सम्प्रति ॥३३ इष्टापूर्तादि पापं यत् क्वापि धर्मतया मया ।
उपदिष्टमनुज्ञातं गहें निन्दामि तत् त्रिधा ॥३४ २७.३. उपायेभ्यः . ३४.१. इप्टापूत्ता'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org