SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [१२-२२ अर्हतां सर्वसिद्धानां मनःपर्यवशालिनाम् । अवधिज्ञानिनां सर्वश्रुतकेवलिनामपि ॥१२ पुरतः परमप्रीत्याऽतिचारमलमात्मानः । प्रक्षालयामि परितो निन्दागर्हादिवारिभिः ॥१३॥ युग्मम् तथा हि -- अकालादिः श्रुतज्ञाने दर्शने शङ्कितादिकः । चारित्रे त्वसमित्यादिस्तपस्यकरणादिकः ॥१४ वीर्ये तु निगूहनादिर्योऽतिचारामयो मम । संजातस्तं चिकित्सामि निन्दागर्दादिभैषजैः ॥१५॥ युग्मम् यच्च सूत्रार्थपौरुष्योः प्रतिलेखनकादिषु । कषायेन्द्रियोगेषु दुश्चक्रे शोधयामि तत् ॥१६ महाव्रतानि पञ्चाप्याददे तेषां पुरः पुनः । अष्टादशाघस्थानानि क्षालयामि मुहुर्मुहुः ॥१७ क्षमयामि सर्वान् जीवान् क्षाम्यन्तु मयि ते समे । तेषां क्षाम्याम्यहमपि मैत्री सर्वेषु मेऽधुना ॥१८ आहारमुपधिं सर्व वपुश्च चरमक्षणे । समक्षमर्हदादीनां व्युत्सृजामि त्रिधा त्रिका ॥१९ परमेष्ठिनमस्कारप्रत्याहारविधानतः । ध्यायन्नन्तर्मुहूर्त स पादपोपगमं व्यधात् ॥२० विदधदिति च पञ्चाचारिकाराधनां स प्रतिसमयमुदीतोत्तङ्गसंवेगवेगः । क्षपकमुनिपदव्या प्रस्थितो घातिघाता निरुपमितिमवापत् केवलज्ञानलक्ष्मीम् ॥२१ तदनु तदनुयातः पातयित्वा क्षणान्त १रभिभवलवोपग्राहिकर्मारिवारम् सममसममुनीनां पञ्चशत्या व्यलासीत् सुगुरुसमरसेनः श्रीमहानन्दपुर्या[ म् ] ॥२२ १४.२. संकितादिकः. १९.४. न्युत्सृजामि. २१.२. 'तोत्तंग .... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy