SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अष्टादश उत्साहः अथ श्रीसमरसेना विहितैहिकसत्कृतः । श्रीविमलसेनसुरन्धरौ कुसुमशेखरः ॥१ कुलमृगाङ्कः सुषेण इति पञ्चर्षिभिः सह । सन्ततक्षतषष्टकैरिति दुष्कर्म वर्मवत् ॥२ तथा हि - द्वादश प्रतिमा मुक्तावली च कनकावली । रत्नकावल्यौ च गुणरत्नसंवत्सर तथा ॥३ लधीयश्च महीयश्च सिंहनिष्क्रीडितं तथा । महीयश्च लधीयश्च भद्रं भद्रोत्तरं तपः ॥४ आचामाम्लवर्धमानं तपश्चान्द्रायणं तथा । इत्थं तपोभिः सुकृशाः शिवे मातुं नु तेऽभवत् ॥५॥ त्रिभिर्विशेषकम् ज्ञात्वाऽथ समरसेनसूरीन्द्रः शेषमायुषः । सम्मेतशैलशिखरे महाशुद्धशिलातले ॥६ संस्तारकं समारुह्यानशनं प्रतिपद्य च ।। पद्मासनस्थः पूर्वाभिमुखो मौलीकृताञ्जलिः ॥७ गरीयस्तरसंवेगतरङ्गोत्तुङ्गमानसः । मधुरध्वनिनाऽऽरेभे वक्तुमाराधनामिति ॥८॥ त्रिभिर्विशेषकम् नमोऽर्हते भगवते ज्ञानदर्शनशालिने । नृसुरासुरपूज्याय ज्यायसे जगतामपि ॥९ यादवान्वयसूर्याय संप्राप्ताक्षयसम्पदे । प्रवाद्यत्कीर्तितूर्याय सर्वतोऽपि निरापदे ॥१० संसारार्णवनिर्मग्नजन्तुसन्तानतारिणे । कर्मवलल्लीवितानकनेमयेऽरिष्टनेमये ॥११॥ त्रिभिविशेषकम् ८.२. तरंगतरंगोतुंग'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy