________________
१४-२०]
सप्तदश उत्साहः
वयस्यवरिवस्थितः सजिनदत्तसुश्रावकः
परिव्रजितुमुत्सुकः सपदि सिंहभूमीश्वरः । पुरात् स्वरूपमान् ततः प्रचलितोऽथ नन्दीश्वरे महोत्सवचिकीर्षया सुरपतिर्यथा दिद्यते ॥१४॥
- पञ्चभिः कुलकम् अथोपवनतीर्थमैत् सुगुरुदैवतालङ्कृतं
विहाय शिविकामसौ सपदि पादचारी ययौ ।। प्रदक्षिणयता गुरुं सह परिच्छदेन त्रिधा
ऽमुनावसुमतीशिना त्रिगतिका किलाकुण्डलि ॥१५ प्रणम्य पदपङ्कजं समरसेनसूरेर्गुरो
व्रताय समुपस्थितः सह परिच्छदेनामुना । स सिंहनृपतिर्यदा खलु तदैव मोहद्विषो
महापुरवरेऽभवत् सततमेव भङ्गानकम् ॥१६ विमुच्य वसनादिकं सुमुनिवेषमेषोऽदधात्
समाजकवच किल प्रबलमोहनिर्जित्वरम् । रजोहृतिमुखांशुके सदसि खेटकेऽन्वग्रहीत्
कचोद्धृतिमिषात् किलाख्यदिति शात्रवोन्मूलनम् ॥१७ नमस्कृति पुरःसरं समयिकस्य सूत्रं जगौ
सुमन्त्रमिव मोहराट्सकलचम्ववस्थापकम् । प्रदक्षिणनया पुनः समरसेन सूरेगुरो
जगाद करणत्रिकांतरयमेव मेऽतः परम् ॥१८ स सिंहनृपतिर्मुनिः सपदि सा च लीलावती
तके नृपतिमन्त्रिणः सजिनदत्तसुश्रावकः । महर्षिपदवीवृताः ससुरदानवैर्मानवैः
प्रमोदगुरु नेमिरे किमपि जिग्यिरेऽन्तद्विषः ॥१९ प्रणम्य सपरिच्छदं समरसेनसूरि गुरुं
जगाम पुरि पद्मकेसरनृशेखरस्तत्र च । प्रतापविजिताहितः किमपि कीर्तिभागीरथी
पवित्रितजगत्त्रयोऽन्वशिषदिन्द्रवत् स्वं पदम् ॥२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org